________________
३३८
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ मौपाधिकत्वात्, रागद्वेषानवकाश इत्युपदिशन्ति सन्ति नियन्त्रपेक्षया द्वितीयस्य स्वतन्त्रस्याभावात् नैव भयस्यावकाश इति प्रतिपादयन्ति । अस्मिन्नपि मते वर्णाश्रमधर्मपरिपालनं नाम मुख्यः प्रणवः। यावान् वर्णाश्रमधर्माणामुच्छेदः प्रबृद्धस्स्यात् तावानेव रागद्वेषादिः प्रधूमितो वैषम्यप्रयोजकः स्यादिति प्रत्यक्षमीक्षामहे । वेदानां रामायणस्य रामचरितमानसस्य मन्वादिस्मृतेरन्येषाञ्च ग्रन्थजातानि मृत्तिकातेलसंयोगेन दह्यन्ताम्, वैषम्यपिशाचिका तु मुक्तकेशा नृत्येदेव । समाजकल्याणानामैव चिरन्तनैर्नेकविधानि दर्शनानि प्रणीतानि, देशगौरवसंरक्षकाणीमानि, बुद्धिशक्तेः प्रवर्द्धकानि, चिन्तनाशक्तिविवर्द्धकानि, देशभक्तिप्ररोचकानि, स्वस्वमर्यादानुल्लंघनेन नित्यनैमित्तिककर्मणां नियमेनानुष्ठातृभ्यः श्रेयःप्रेयःप्रदानि । भारतीयदर्शनानि पुरुषाभिलषितावाप्तये यं यं पन्थानं परिकल्प्य तत्र गन्तुं प्रचोदयन्ति, तत्रेतिकर्तव्यतापूरकाणि स्मृतिनिबन्धेतिहासपुराणाद्यनल्पानि ग्रन्थजातानि । हैयङ्गवीनं सर्वस्मा एव रोचेत, किन्तु तदवाप्तये उच्चावचानि कार्याणि कर्तव्यानि भवन्ति । तदिदं ज्ञातव्यं मानवेन । गां दुग्धा पयः सम्यक्सन्तप्य किञ्चिदार्टीकृत्य दघ्नातञ्च पिधाय परेद्यस्सम्पन्नं दधि मन्थानेन मथित्वा नवनीतं निष्कास्य, तत्सेवनीयमिति भवतीतिकर्तव्यता। विनेतिकर्तव्यतया न खलु फलसिद्धिस्साधनेन विलोक्यते । इति कर्तव्यताः परित्यज्य केवलं दर्शनैरुपदिष्टं साधनं फलं कथमुत्पादयेत् ? येषां मते फलं साध्यं भवति तैः साधनमितिकर्तव्यता च नूनमपेक्ष्यते । येषां वा मते फलं स्वतस्सिद्धं न साध्यम्, तैः तत्प्रतिबन्धकनिवृत्तये साधनेतिकर्तव्यता अपेक्ष्यन्त एव । शून्यं शून्यमिति भावनाबोधकं शून्यतादर्शनं कामं महाफलाय स्यात्, एकमात्मानं परतत्त्वं विभाव्य समानांदर्शनं नूनं महाफलं नानात्मसु सत्स्वपि ईश्वरपारतन्त्र्यविभावनमवश्यं महाफलं स्यात्, किन्तु सर्वत्रेतिकर्तव्यताया नान्तरीयकतेत्यत्र न कश्चन संशयलेशः। इतिकर्तव्यतैव भारतीया संस्कृतिः। स्वयं शौचारविहीनः मद्यपः, चौर्यरतः, वञ्चनापरः, पिशुनश्च, अपि च शून्यं शून्यमिति विभावनं श्रेयस्करमिति ।
सदा जपपरे हस्तः मध्ये मध्येऽक्षिमीलनम् ।
सर्व ब्रह्मेतिवादश्च सद्यः प्रत्ययकारणम् ॥ इति रीत्या 'ब्रह्मसत्यं जगन्मिथ्या' इत्यात्मैकत्वानुसन्धान शान्तिप्रदम्, इत्युपदिशेत्, तदा वक्तारः किं न वदेयुः ? कथं वास्य वचसि श्रद्धधीरन् ? श्रद्धधाना अपि अशुच्यनाचारादिभ्यः कथं निवर्तेरन् ? उपदेष्टा नूनमेव नोपदिशेत् यद् अशुच्यनाचारेण वर्तितव्यम्, मद्यसेवनं कर्तव्यम्, चौर्यमनुष्ठेयमित्यादि, किन्तूपदेष्टुर्वर्तनं निशाम्य स्वयमपि उपदेश्यस्तथा यदि वर्तेत तदा नाधिकार उपदेष्टुः-यदेवमात्मानमनुवर्त
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org