________________
३०२
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ
भारतस्य स्वतन्त्रतायाः अनन्तरं नूतनं संविधानं निरमायि व्यक्तिश्चास्य आधारशिलात्वेन स्वीकृता । नूतनेन सम्विधानेन समग्र भारतराष्ट्रम् एकसमष्टिरूपेण स्वीचक्रे, तथा च जातिवर्गप्रभृतिसमष्टीनां निषेधः कृतः । परन्तु अनुसूचितजातीनां जनजातीनां च समष्ट्यः वैधानिका अमान्यन्त |
·
किन्तु सम्विधानस्य इमं नियमं पालयितुमसामाजिकस्तरेण न कोऽपि प्रयासः कृतः । सम्विधानेन भारतराष्ट्रस्य एकसमष्टिरूपेण स्वीकरणे, व्यक्तिशश्च एकमात्रसमया स्वीकरणे महदन्तरम् विद्यते । एतदन्तरं दूरीकर्तुं व्यक्तिचेतनायां परिवर्तनमावश्यकम् आसीत् । एतदावश्यकपरिवर्तनस्य उद्भावने न कोऽपि प्रयत्नः कृतः । नैतिकता यामाधृतानि आचरणानि समष्टिहितार्थम्, व्यक्ति स्वार्थत्यागार्थं प्रेरयन्ति उद्योजयन्ति च । परोक्षं च समष्ट्या बध्नन्ति । नैतिकताया आधारशिलायाम् आचरणं प्रतिष्ठापयितुं न केऽपि प्रयत्नाः अक्रियन्त । पाश्चात्यदर्शने व्यक्तेः पूर्णस्वतन्त्रताधारणया एतत्प्रयत्नाभावस्य सम्बलं प्रदाय परमोत्कर्षः प्रदत्तः । दर्शनस्यास्य चरमोत्कर्षः अमरीकादेशस्य न्यायमूर्ति होम्समहोदयस्य अनेन वक्तव्येन स्पष्टीभवति - 'यदा लोकाः safe कार्यं चिकीर्षन्ति, तत्कार्यनिषेधश्च स्पष्टं मया सम्विधाने नोपलक्ष्यते, तदा मया कथ्यते—इदं कार्यम् अस्मभ्यं रोचेत न वा रोचेत तैः क्रियताम्, नास्ति तेन किमपि मत्प्रयोजनम्' When the People want to do Something I can't find any thing in the constitution expressly forbidding them to do, I Say whatever I like it or not Godomnit, let'em do it
एतत् सुनिश्चितं यत् कस्मिश्चिदपि सम्विधाने समष्टिदृष्ट्या अनुचितानां समस्तानाम् आचरणानां निषेधं समावेशितुं न शक्यते । यदि सम्विधानाद् अतिरिक्तानाम् आचरणानाम् उपरि प्रकारान्तरेण अङ्कुशो न भवेत् तर्हि व्यक्तिगतस्वतन्त्रता अविलम्बं स्वच्छन्दतायां परावर्तेत ।
वर्तमानकाले पाश्चात्यदेशेषु स्वीकृता व्यक्तेः पूर्णस्वतन्त्रता तत्तद्देशस्य आर्थिकविकासस्य प्रारम्भदशायां नासीत् । षोडशतमे ख्रीष्टसम्वत्सरे प्रोटेस्टेन्टधर्मेण यूरोपीयव्यक्तेराचरणानि नियन्त्रितानि, इदानीमपि तन्नियन्त्रितो जनः स्ववृत्यां व्यवसाये वा निष्ठापूर्वकं कार्यं करोति । आर्थिकराजनीतिके शिक्षणे संगठने च तुलनात्मकदृष्ट्या पर्याप्तं अनुशासनम् अस्ति । क्षेत्रान्तरेषु व्यक्तेः स्वतन्त्रता - कामना देशस्य आर्थिक विकासाद् उत्पन्नसमृद्धेः उपभोग-लिप्सा एव प्रतीयते । भारते एतादृश्याः स्वतन्त्रतायाः अनुकरणं विशेषतया व्यवसाये वृत्तौ च अनुशासनहीनतायाः निष्ठा
परिसंवाद - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org