________________
समकालीनभारते व्यष्टि-समष्टिसम्बन्धानां दिशा
२०१ कार्याभावः, परीक्षकेषु च अङ्कवर्धनार्थम् अनुचिताधिकारप्रयोगः, परीक्षकानाञ्च तथैव आचरणम्, इमे दृष्टान्ताः (इमानि लक्षणानि) सामाजिकसंरचनायां द्रुततरगत्या प्रसरणशीलस्य कैंसररोगस्य । भविष्यतिकाले यदा इमे छात्राः सर्वेषु सङ्गठनेषु नियोक्ष्यन्ते तदा सर्वेषां सङ्गठनानां दुर्दशा अनुमातुं शक्यते।
भारतीयसमाजस्य एषा दुःखस्था अनेकेषु दार्शनिकेषु सैद्धान्तिकेषु च प्रश्नेषु विचारार्थम् अस्मान् नियुक्त। अस्मद् दृष्टया एतेषां सर्वेषां प्रश्नानां मूलभूतोऽन्यतमः प्रश्नः-'व्यष्टेः समष्टेश्च सम्बन्धानां निर्णयः' अस्ति, ततः पश्चात् तादृशानां साधनानां निर्वाचनं तदुपयोगश्च यदाधारेण वाञ्छितसम्बन्धाः स्थापितुं शक्यन्ते।
व्यष्टिं समष्टिमन्तरा निरन्तरं शाश्वतं द्वन्द्वं विद्यमानमस्ति । व्यष्टरुपरि यदि समष्टेः प्रभावो नाभविष्यत्तहितत्स्वार्थसिद्धो पूर्णस्वतन्त्रता अभिलिष्यत्, अपि नात्रेयं स्वतन्त्रता स्वच्छन्दता रूपं गृह्णीयात् । समष्टे: रक्षायै इदं आवश्यकम्, यत् व्यक्तिः पार्थक्येन स्वार्थसिद्धौ तत्रश्च्छन्नमतिः न स्यात् । तदैव समाजस्य सर्वाङ्गीणविकासाग्निज्वलितुं शक्यते यदा सर्वाणि काष्ठखण्डानि सहैव ज्वलिष्यन्ति।व्यक्तिः समष्टिमनसा यदि कर्म कुर्याद विष्वगविसृत्वरविकासगुणः समाजः। एकेन पावककणेन कियानिहार्थः सम्भूय काष्ठनिचयैरनलः समिन्धे ॥
भ्रष्टाचारः, अनुशासनहीनता, स्ववृत्ति प्रति निष्टायाः अभावः, राजनीतिक दलबदलनं (दलस्य अवदलन), अपराधश्च, इमानि प्रमाणानि यत् व्यक्तिः स्वार्थसाधने सम्पृक्तः सन् समष्टिगतहितेषु विचारलेशशून्यः प्रमत्तः सञ्जातः । अस्यां स्थितौ समष्टिजीवनं सङ्कटापन्नं वर्तते ।
अस्याः स्थितेाख्या हेतुसन्दोहैः कर्तुं शक्यते । भारतीय सामाजिकव्यवस्थायां परम्परया व्यक्तिः लघुसमष्ट्या आवद्धः आसीत्-उदाहरणतः-कुटुम्बः, परिवारः, जातिः, ग्रामश्च इमे समूहाः लघुसमष्टिरूपाः व्यष्टेराचरणं निर्मान्ति स्म, अलङ्कुर्वन्ति स्म । सत्यावश्यके नियच्छन्ति स्म । एतत्समष्टिभिः, धर्मेण च निर्दिष्टं व्यक्तेः समाजीकरणं व्यक्तराचरणे आन्तरिकनियन्त्रणं उत्पादयति स्म । अत एव बाह्यनियन्त्रणस्य आवश्यकता स्तोकैव आसीत् ।।
____ अस्यां स्थितौ शनैःशनैः परिवर्तनं जातम् । स्वतन्त्रतालाभेन अस्याः स्थितेः क्रान्तिकारि परिवर्तनं कृतम् । १८७२ ख्रीष्टाब्दात् ईष्टइण्डियाकम्पनीसंस्थायाः नीत्या सम्पत्तिसम्बन्धे परिवारात् जातेः ग्रामाच्च व्यक्तिः एककः स्वीचक्रे । अस्मिन्नेव काले विशेषविवाह-अधिनियमेन विवाहविषयेऽपि व्यक्तिः परिवाराजातेश्च स्वतन्त्रः अकारि ।
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org