________________
२००
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ कर्मचारिणां स्वार्थपूत्यै निर्मीयन्ते । सार्वजनीनक्षेत्रे सर्वेषु औद्योगिकसङ्गठनेषु अयं रोगः पूर्णतः व्याप्तो दरीदृश्यते । समाजवादोद्घोषेण अधिकाधिक सङ्गठनानि सार्वजनीनक्षेत्रे आनीयन्ते, परन्तु तानि सर्वाणि सार्वजनीनहितपूर्त्यपेक्षया वैयक्तिकहितपूर्ती साधनविशेषतया उपयुज्यन्ते।
आभिः समस्याभिः सहैव अस्माभिः राजनीतिकभ्रष्टाचारात् (दलबदलसे) संस्थासदस्यतापरिवर्तनाच्च उत्पन्नायां राजनीतिकास्थिरतायाम् उद्देश्यहोनतायां च विचारः कर्तव्यः । यतोहि राजनीतिकास्थिरता समष्टेः हितभावनायाः अभावश्च शासकीयसङ्गठनानाम् अराजकतां भ्रष्टाचारं च वर्धयति अवरुणद्धि च आर्थिकविकासम् । लोकसभासदस्यानां निर्वाचनम् इदानीमेव सम्पन्नं वर्तते । इदं सर्वमान्यं तथ्यम्, यद् इमानि निर्वाचनानि भ्रष्टाचारमूलानि । निर्वाचने कलहायमानाः प्रत्याशिनः संस्थाश्च निर्वाचनाडम्बरे व्ययार्थं धनानि कुतः प्राप्नुवन्ति ? केचन केन हेतुना धनानि एभ्यो ददति । एवं विधानां प्रश्नानामुत्तराणि नाज्ञातानि बुद्धिमताम् । ये धनपतयः निर्वाचने प्रत्याशिभ्यो धनं प्रयच्छन्ति, तेऽवश्यं सांसदेभ्यो वैयक्तिक लाभं कांक्षन्ते।
___ अपरञ्च-१९६७ (सप्तषष्ट्युत्तरैकोनविंशतितमात्) ख्रीष्टवत्सरात् शनैः शनैः भारतीया राजनीतिः सिद्धान्तविहीना विद्यमाना विलोक्यते । इदानीमधि एषा दुःखस्था अस्ति यत् प्रत्येक राजनयिकः यत्र स्वार्थपूर्ति विलोकयति तत्रैव त्यक्तलज्जः पतति । सर्वाः राजनीतिकसंस्थाः समाजवादजनतन्त्रधर्मनिरपेक्षतादिसिद्धान्तान् उद्घोषयन्ति, परन्तु तेषां वास्तविकी निष्ठा अवसरवादसिद्धान्ते वरीवति । उपर्युक्तोद्घोषाः सभ्यविहितावसरवादस्य आवरणरूपेण प्रयुज्यन्ते । एतस्मादपि अधिकतरं किं हास्यास्पदं भविष्यति यत् उत्तरप्रदेशस्य लोकदलशासनेन आदशमकक्षाशिक्षणं संस्कृताध्यापनस्थाने उर्दूभाषाध्यापनाज्ञा उद्घोषिता। यतोहि मुस्लिमसम्प्रदायस्य मतानि निर्वाचनसाफल्याय अपेक्ष्यन्ते। परं लोकदलस्य कार्यवाहकप्रधानमन्त्रिणश्चरणसिंहस्य विचारेण एतादृशी आज्ञा अनुचिता वर्तते । अत्रेदं वक्तव्यम्-यदि स चरणः वास्तव्येन इमं नियमम् अनुचितं मनुते, तदा उत्तरप्रदेशमुख्यमन्त्रिणा वनारसीदासेन लोकदलनिर्णयं विना, विना च विधानसभासहमति कथंकारम् एतन्निर्णीतम् । एतादृशस्य आचारहीनस्य सर्वकारस्य मुख्यमन्त्रिणः राजनीतिकदलस्य च नास्ति अधिकारः शासने।
इमे सामाजिका व्याधयः आर्थिकेषु राजनीतिकेषु क्षेत्रेष्वेव न सन्ति बद्धसीमानः । शिक्षणसंस्थासु अपि इमे रोगाः प्रदूषयाम्बभूवुः । छात्रेषु अनुशासनहीनता, अध्यापने प्रत्यहं बाधाः, परीक्षासु च बद्धसमूहं प्रतिलिपिपरम्परा, यथासमयं परीक्षापरिसंवाद-२
..
.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org