________________
१९०
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ पुण्यवतः सुखात् न भवतु परिच्युतिरिति मुदितया परिवृणोति जनं भगवान् । सर्वस्य पापोन्मुखस्य पापवृत्तिर्विगच्छतु इति हितमिच्छन् भगवान् संक्लिष्टं जनं निःसंक्लेशताशयलक्षणया उपेक्षया संस्पृशति भगवान् । एवं व्यष्टिहितमभिलषता जनेन सुखसंयोगाशयतया, दुःखवियोगाशयतया, सुखावियोगाशयतया, हिताशयतया च व्यष्टिं व्यष्टिम् उद्दिश्य प्रवर्तितव्यम्-इति बौद्धसम्मतो मार्गः (द्रष्टव्योऽत्र महायानसूत्रालङ्कारे चरमोऽधिकारः, तत्र श्लोकः ४३, सप्तदशोऽधिकारः श्लोकौ १८,६२) । (४) समष्टिविकासे सङ्घस्य गणतन्त्रराज्यस्य च व्यवस्था
समष्टिविकासाथैव भिक्षुभिक्षुणीसङ्घप्रवर्तनं कृतमासीद् भगवता। तत्र सङ्कभुक्तानां जनानां विकासस्य द्वौ मार्गावास्ताम् । ग्रन्थधुरया वा विकासः कर्तव्याः विपश्यना धुरया वा विकासो विधेयः । उभयविधया धुरया यो विकासमवाप्नोति तस्य महती भवत्यर्थवत्ता-इति विनापि वाग्व्याहृतेन प्रकाशयितुं शक्यम् ।।
जनसाधारणविकासपरिपालनाद्यर्थ गणतन्त्र राज्यव्यवस्था बुद्धकाले जीवितासीत् । साम्प्रतं सा बहुत्र लब्धप्रचारा। भारतदेशोऽपि तेषामन्यतमः । अस्यां व्यवस्थायां शीलप्रज्ञासम्पन्नानि यदि भवन्त्यधिकारिमण्डलानि तहि सर्वं सुस्थमेव विज्ञातव्यम् । अन्यथा तु दारिद्रयेण जनता परिपीडिता भवति तद्यथा साम्प्रतं भारते। भारते शिक्षितवर्गः, अशिक्षितवर्गः, सम्पन्नवर्गः, विपन्नवर्गश्चेति चतुर्विधो जनवर्गः। तेषु अशिक्षितवर्गे विपन्नवर्गे च बहुजनानामन्तर्भावः। सेयं भारतीयगणतन्त्रस्य विफलता। तस्य सफलता तदा भवित्री यदा जनाः साक्षराः सम्पन्नाश्च भवितारः । सर्वविधराज्यसाफल्यस्य सर्वजनसम्पन्नतैव निकपः । (५) समष्टि विकासे एकचक्रादर्शः
___ सर्वलोकसम्पन्नतैव समष्टिविकासस्य समग्र आदर्शः, एष विषयो दीर्घनिकायस्य चक्रवर्तिसूत्रे विस्तरेणोपपादितः। सिंहलद्वीपे यः कोऽपि विपन्न राष्ट्रं दृष्ट्रा, विविधदोषपूर्णं च राष्ट्र सम्भाव्य किमपि व्याहरति स सूत्रमेतद् उदाहरति । अत्र बौद्धराज्यतन्त्रादर्श जिज्ञासुना सूत्रस्यास्य परिशीलनं कर्तव्यम् । इमानि तस्य सूत्रस्य विचारबिन्दवः। समग्रपृथिवीमण्डलम् एकमेव भवतु राज्यम् । तदायत्तानि भवेयुर्बहूनि विजितानि लघुमण्डलानि । सर्वेषां दोषाणामेकमात्रं निदानं दारिद्रयं न तत्र लब्धास्पदं भवेत् । राज्यं च अदण्डेन कृतं स्यात्, अशस्त्रेण कृतं स्यात्, धर्मेण च कृतं स्याद् इति । तदनुरूपोमहाप्रदेशपत्यादितत्तत्स्थानपतिपर्यन्तोऽधिकारिवर्ग नियोगोऽनिवार्य एव । ___एतानि समष्टिविकासकराणि सूत्राणि न भूमौ क्वचिदप्यनुसृतानि । भारते तु कौटिल्यादिभिरेतद्विपरीतानि सूत्राणि निर्माय अर्थशास्त्राख्यया प्रचारितानि राज्यपरिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org