________________
व्यक्तिसमष्टिविकासानुबद्धा बौद्धदृष्टिः
१९१ कृद्भिः प्रायः सर्वत्रानुसतानि । तथा दृष्ट्वा नागार्जुनाचार्यस्य मनसि महती पीडा जाता। स स्पष्टमेवाह
परातिसन्धानपरा कष्टा दुर्गतिपद्धतिः। अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथां कृता ॥
(रत्नावली २।३०) इति । किं बहुना। धर्मराज्यस्यैव त्रयो निकषाः। दारिद्रयोन्मूलनं, अदण्डप्रवृत्ति, अशस्त्रप्रवृत्तिश्च । एतच्चतुस्तत्त्वसमन्विते राजतन्त्रे विकसति हितचेतना । विकसितायां हितचेतनायां कलिमलबहुलानामपि हितं चिन्तयितुं शक्यते। श्रूयते, तथागतो विनीतवान् दस्युम् अङ्गलिमालम् । बभूव सोऽत्रार्हतामन्यतमः। सेयं करुणा भगवन्निष्ठा । इयं राजनिष्ठापि भवतु । तथा चाह नागाजूनः
हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् । करुण्यात् सततं राजस्तीव्रपापकृतामपि ॥ तीव्रपापेषु हिस्रेषु कृपा कार्या विशेषतः। त एव हि कृपास्थानं हतात्मानो महात्मनाम् ॥
(रत्नावली ४।३१, ३२) इति । (००) विषयोपसंहरणम्
व्यष्टिः समष्टेः परमोंऽशः। सूक्ष्मतमोऽशः। एकशब्देन संख्यावाचकेन निर्देश्योंऽशः। व्यष्टीनां समुदाय एव समष्टिः। समष्टौ व्यष्टीनामुचितं स्थानं भवेत् । व्यष्टयो न पीडामनुभवेयुर्दण्डेन, शस्त्रेण, अधर्मेण, दारिद्रयेण चेति। यदीयं व्यवस्था भवेत् तहि समष्टीनां राज्यकर्मपरायणानां वा मतवादपरायणानां वा कोऽपि प्रहारो नैव भवितुं शक्यः। दण्डशक्त्या शस्त्रशक्त्या च सुव्यवस्था नैव लोके भवित्री । दण्डनायकानां सतामपि नगरेषु काचिद् नास्ति सुरक्षा। अपहारः, हिंसामुखेन प्राणापहारः, दुःशीलताप्रसारश्चेत्यादयो दोषा सर्वत्र बहुलीभूता दृश्यन्ते । एतेषां दोषाणां निवारणे दरिद्रा एव राज्यकृतः। यद्यपि नास्ति तेषां वचने दरिद्रता, प्रतिज्ञायां वा दरिद्रता । उक्तार्थकरणे प्रतिज्ञार्थसम्पादने तु भवत्येव दारिद्रयम् । किं वचसां शौर्येण लोकानाम् । प्रयोजनसम्पादने यदि शौर्य प्रदश्यते तहि भवत्येव लोकानां हितं च सुखं च । उपसंह्रियते साम्प्रतं तथागतवचसा
सहस्रमपि चेद् वाचो ह्यनर्थपदसंहिताः। एकमर्थपदं श्रेयः श्रुत्वा यद् उपशाम्यति ॥ (धर्मपद १००).
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org