________________
व्यक्तिसमष्टिविकासानुबद्धा बौद्धदृष्टिः
१८९ प्रकाराणामियत्ता नास्ति । दृष्टाः पुरा, दृश्यन्ते चाद्यत्वेऽपि बहवः सङ्घा नानुमतास्ते शिष्टैः सर्वैबौद्धाबोद्धैः। तद्यथा चौर-दस्यु-तस्करसङ्घाः सुगुप्ता, सुसंवृताश्च । सन्त्यपरेऽपि राज्याश्रयप्राप्तिमुखेन सर्वत्र विवृताः सङ्घा । तद्यथा, कार्यविरतिप्रेरकाः सङ्घाः, उत्कोचादिग्राहिविविधलोकसङ्घाः, नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । स सनन्दति विना वाच्यं यो जानाति निगूहितम् । (काव्यमीमांसा पृष्ठं ६१ बड़ौदासंस्करणम्) इति न्यायेन निगृहनपरमपटवो विपणिप्रभूणां वणिजां सङ्घाः । इदं दिग्दर्शनमात्रम् । मायाजोविनां सर्वे सङ्घा ये लोके प्रचलितास्ते न बौद्धसम्मताः । गुणवज्जनसमष्टिरेव बौद्धानां समष्टिः। तादृक्समष्टिविकास एव बौद्धविचारविषयः। (३) व्यष्टिविकासेऽधिकारिभेदनिरूपणम्
अनन्ता व्यष्टयः। तासां सामान्या शक्तिर्भवति । विशेषा च शक्तिर्भवति । विशेषा शक्तिर्व्यष्टौ भिन्ना भवति । अतः काचन विद्याधर्मादिचर्या न सर्वस्य जनस्य कृते समाना निर्देष्टुं शक्या। तथागतदेशनापि न समाना तत एव सर्वजनानां कृते । आचार्यनागार्जुनः तमिममर्थमभिलक्ष्य तत एव व्याहरति स्म । यथा वैयाकरणः स्वशिष्यान् पूर्वं वर्णमातृकायां विनयति, ततः क्रमेण गूढेषु विषयेषु तान् करोति विशारदान्, एवं तथागतो विनेयजनानां योग्यतां विनिश्चित्य धर्म देशयति स्म । पापेभ्यो विरमत, इति समुपदिश्य केचन भगवता शिक्षिताः। पुण्यान्याचरत, इति समुपदिश्य केचन धर्ममार्ग प्रति प्रेरिताः । पुण्येषु रति पापेभ्यश्च विरति शिक्षयित्वा केचन पटवः कृताः । पुण्यपापजितां चर्यां प्रतिपाद्य केचन परिपक्वाः कृताः। करुणाचर्यां शन्यतादृष्टिं च विवृत्य केचन बोध्यर्थं विनीताः। इत्येवं विविधैः प्रकारैः कृता या तथागतदेशना सा चर्यार्थ लोकानामधिकारिभेदनिरूपणार्थव (द्रष्टव्योऽत्र नागार्जनकृतरत्नावलीलेखे चतुर्थो राजवृत्तोपदेशाख्यः परिच्छेदः, तत्रापि श्लोकाः ९४-१००)। अयमर्थः प्रकारेणापरेण विनयपिटकस्य महावर्गे समुपदिष्टः । तद्यथा। भगवान् आनुपूर्वीकथां कथयामास । तद्यथा। दानकथां, शीलकथां, स्वर्गकथां, कामानामादीनवं, नैष्क्रम्ये आनुशंशं प्रकाशयामास । यदा भगवान् अज्ञासीत् श्रोतारं मृदुचित्तं प्रसन्नचित्तम् अथ या बुद्धानां सामुत्कर्षिका धर्मदेशना तं प्रकाशयामास । दुःखं, समुदयं, निरोधं, मार्ग चेति । अस्तु, व्यष्टिविकासाथ कश्चन विकासक्रमो विकासोपयुक्तजनयोग्यतां दृष्ट्वा कर्तव्यो येन विना काठिन्येन विकासः सम्भवेत् । इत्येष बौद्धो मार्गः सर्वेषां बुद्धिमतां सम्मत एव । भगवांस्तु या या व्यष्टिरिह वर्तते तां तां विषयीकरोत्यप्रमाणैः । सर्वस्य सुखितस्य सर्वदा सुखं तिष्ठतु इति मैत्र्या जनं वेवेष्टि भगवान् । सर्वो दुःखितः भवतु दुःखविजितः-इति करुणया व्याप्नोति जनं भगवान् । सर्वस्य
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org