________________
१८८
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ सम्पन्न एव स्वहितं परहितं च कर्तुं प्रभवतीति समुपदिश्यते व्यष्टिमाहात्म्यस्यैव कल्याणचित्तता, स्रोतआपन्नता, सकृदागामिता, अनागामिता, अर्हत्त्वम्, बोधिचित्तोत्पादः, दानचर्या, शीलचर्या, क्षमाचर्या, वीर्यचर्या, ध्यानचर्या, प्रज्ञाचर्या, बोधिसत्त्वता, बुद्धता चेति विकासपंक्तिः। अस्मिन् व्यष्टिविकासे यद्यपि विविधोच्चसेवातत्परता विविधाधिकारिपदारोहणता वा न गणिता तथापि सा राज्यव्यवस्थाप्रसङ्गे नामनिर्देशमात्रेण कथिता भवित्री। व्यष्टिसामर्थ्यमेव विकासनिमित्तं भवति न जात्यादिकम् । गुणाश्च जाति न विचारयन्ति (दिव्यावदाने पृ० २४३) इति हि बौद्धसमयः । स्वहितं प्रति पशुरपि न प्रमाद्यति । परहितप्रयत्नपरास्तु ये पुरुषास्ते सुकृतिनः (शिष्यलेखः पद्यं १०१)। व्यष्टिविकासार्थमाचार्यनागार्जुनः प्राह–क्षान्त्या वीर्येण च भवत्यात्मार्थः, दानशीलाभ्यां सिध्यति परार्थः, मोक्षार्थो ध्यानेन प्रज्ञया च सम्पद्यते इति (द्रष्टव्या रत्नावली ४।८१) । अस्तु, व्यष्टिविकासो वर्तते बौद्धचिन्ताविषयः। (२) समष्टिभावस्याभिनन्दनम् ।
____तथागतः सङ्घ समष्टिभावरूपे कृतदृष्टिः स महापरिनिर्वाणसूत्रे भिक्षूणां सङ्घस्य च राज्यकृतां सङ्घस्य चेति द्विविधसङ्घस्य समग्रतामभिनन्दति । तयोर्वृद्धिकरान् धर्मान् निदिशति । बौद्धधर्मे गुणवानेव सङ्घो वस्तुतः सङ्घो मतः । सङ्घभुक्तो जनः स्थिराशयो भवति चेत् सङ्घोचितो भण्यते । यश्च कदाचिद् बुद्धश्रावको भवति, कदाचिद् अचेलको भवति, कदाचिद् आजीवको भवति, कदाचिद् निर्ग्रन्थो भवति, कदाचिद् तापसो भवति, एवं रूपो हि यः अनवस्थितचितः पुद्गलः स श्रद्धाविरहितो भवति, अस्थिरविश्वासो भवति, अज्ञो भवति सद्धर्मस्य, न प्रज्ञां परिपूरयति, न तस्य भवति सङ्घ प्रतिष्ठा (द्रष्टव्यार्थकथा ३६ धर्मपदगाथायाः)।
___सङ्घो गुणवज्जनभूषितो भवेद् इत्यर्थमेव सर्वशिक्षाः सुचरिताचरणाय, दुश्चरितनिवारणाय । प्रमुखेषु दुश्चरितेषु सङ्घभेदोऽन्यतमः। स सर्वथैव परित्याज्यः । तस्यैवाचरणाद् देवदत्तस्य लोके निन्दा प्रसृता। आगमे तस्य निरयगतिनिदर्शिता। सङ्घो हि तथागतवचनानुसारं कल्याणपरायणानां विदुषां समूहः। स हि पुण्यम् आकाङ्क्षमाणानां सङ्घो वै यजतां मुखम् (सूत्रनिपाते शैलसूत्रम्, गाथा २२) इत्येवं भगवता स्तूयते । राज्यकर्तृणामपि सङ्घो भगवदभीष्टः । परं भगवान् यावदभिनिष्क्रमणं शाक्यगणराज्यधुरं युवराजः सन् दधानः परमो भीतोऽप्यासीत् । तेन अल्पोदके यथा मत्स्याः स्पन्दमाना भवन्ति तथैव इमाः सर्वाः प्रजा अन्योन्यं समभिलक्ष्य विरुद्धाचरणा दृष्टाः, अतएव तं भयमाविष्टम्, (द्रष्टव्यमत्र सुत्तनिपाते आत्मदण्डसूत्रम्) इति सूत्रे प्रस्तूयते । किं बहुना, गुणवतां श्रमणब्राह्मणानां यः सङ्घः, परस्परम् अविरुद्धाना प्रजापालकानां च यः सङ्कः, स द्विविधोऽपि सङ्घो भगवबुद्धसम्मतः। परं सङ्घपरिसंवाद-२
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org