________________
व्यक्तिसमष्टिविकासानुबद्धा बौद्धदृष्टिः
प्रो० शान्तिभिक्षुशास्त्री (०) मातृकाबन्धः
व्यष्टि सदैव व्यवहारपथप्रपन्ना ये चिन्तयन्ति मुनयोऽत्र समष्टिरूपाम् । सर्वां समष्टिमपि तत्त्वपथेऽत्र शून्यां
ये भावयन्ति त इहात्र जने जयन्ति ॥ व्यष्टिसमष्टिविकासानबद्धां बौद्धदष्टिं निरूपयितुमत्र क्रियते मातकाबन्धः । तद्यथा-(१) व्यष्टौ समष्टिभावस्य सङ्केताः, (२) समष्टिभावस्याभिनन्दनम्, (३) व्यष्टिविकासेऽधिकारिभेदनिरूपणम्, (४) समष्टिविकासे सङ्घस्य गणतन्त्रराज्यस्य च व्यवस्था, (५) समष्टिविकासे एकचक्रादर्शः, (६) साक्ष्यानुस्मरणं चेति। आसां मातृकाणाम् उपपादमुखेन यथा व्यष्टिनिष्टं मानवजीवनं विकासम् उपगच्छति, यथा च समष्टिनिष्ठं मानवजीवनं समुन्नति लभते, यथा चात्र बुद्धस्य भगवतः, बौद्धानां च विदुषां सङ्केताः प्राप्यन्ते तथा दिग्दर्शनं कर्तुं ममात्र प्रयत्नः । (१) व्यष्टौ समष्टिभावस्य सङ्केताः
बौद्धदृष्ट्या यद्यपि कश्चिद् एकः पुद्गलादिशब्दवाच्य आत्मा, कारको वेदकश्च , न स्वीकृतस्तथापि समष्टिरूपा व्यष्टिः स्वीकृता वर्तते । तद्यथा यत्रापरे अहं-ममादिशब्दान् व्यवहरन्ति, तत्र बौद्धा अपि व्यवहरन्ति, परं सङ्केतितार्थो भिन्नो भवति । बौद्धा पञ्चस्कन्धव्यतिरिक्तां व्यष्टिं न पश्यन्ति । पञ्चस्कन्धसमष्टावेव व्यष्टिव्यवहारं कुर्वन्ति । अपरे तु पञ्चस्कन्धेभ्योऽनालिङ्गितां व्यष्टि विभावयन्ति । एवं यत्र पश्यन्त्यपरे कमप्येकम् अवयविनं तत्र बौद्धाः केवलम् अवयवपुञ्जम् एव पश्यन्ति । एवं या काचिद् एक-व्यक्ति-व्यष्ट्यादिपर्याया संवृतिवर्तते, सा बौद्धनयेन यद्यपि समष्टिरेव वर्तते तथापि व्यवहारदशायां तस्याः स्वीकारः सर्वबौद्धसम्मत एव । अस्मिन् प्रसङ्गे कोऽप्येको जनो व्यष्टिरिति मन्तव्यः। समाजवर्तिनस्तस्य समाजात् सर्वथा दूरङ्गमस्य वा तस्य विकासोऽत्र चिन्तनीयः । बौद्धधर्मः स्वहितार्थः, परहितार्थः, मोक्षार्थश्च भवति । यो न स्वस्य हिताय वर्तते, न परस्य हिताय वर्तते, न च मोक्षाय वर्तते, स न भगवतो धर्मः । तत्र स्वहितचर्यायां परहितचर्यायां च तत्पराणां कृतेऽयं शान्तिदेवस्य निर्देशः-न हि तद्य न्न शिक्ष्यम् (बोधिचर्यावतारः ५।१००) इति । एवमधिकाधिकविद्याचरणशिक्षा
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org