________________ / श्री जिनस्तवनम् // 115 प्राणिस्त्वया प्राणभृतां समक्षं व्रतं गृहीत्वा पुनरेव मुक्तम् / तथापि ते दुर्गतिपात दुःखजं भयं कदाचिन्न समागतं हृदि / / 5 / / प्राणिन् परापाय विमर्शपूर्वं कालं कियन्तं त्वमजीगम: प्राक् / न ज्ञातवानित्यनुचिन्त्यते तु यत् शत्रोस्तदेवात्मनि जायते ध्रुवम् // 6 // जीव! त्वया जीवित लिप्सयैव प्राणापहारो विहितः परेषाम् / न ज्ञातमेतत् किल यादृगेव वितीर्यते तादृशमेव लभ्यम् // 7 // त्वं वेत्सि सर्वं सचराचरं जगद् ___ ज्ञानेन लोकत्रितयावलोकिना। तथापि ते नाथ पुरो ब्रवीमि किञ्चिन् मदीयाचरणं प्रमादजम् / / 8 / / अन्योऽन्य - दुर्वाक्य परंपराया: संभाषणेनाऽपि यदार्जितस्य। पापस्य निर्नाशनहेतुभूतं __ स्वामिंस्त्वदीयं चरणद्वयं मे // 9 // नैवाभवन्नापि भविष्यतीह कामान्धचेताः खलु मत् सदृक्षः। यद् दृष्टवानस्मि सरागया दृशा वधूजन श्राध्दजनस्य तादृशम् // 10 //