________________ // नाभेयजिन विज्ञप्तिरूपं स्तवनम् // 108 ये त्वद्गुणव्रातपयोधिमीना स्त्वदीय वाचामृतपानपीनाः / त्वदुक्त सिद्धान्तपथाध्वनीना स्त्वद्वक्त्रवीक्षाविषये नवीनाः // 77 / / त्वत्पादपङ्केरुह एव लीना स्त्वदीयसेवा विहितात्मनीना:। भवन्ति ते जन्मजराविहीनाः संसारचक्रे न कदापि दीनाः // 78 // इत्थं त्वदग्रे जिन ये स्वरूप मात्मीयमावेद्य कृतात्मगर्हा। ते स्वर्गसौख्यान्नचिरेण भुक्त्वा भव्या महानन्दपदं लभन्ते // 79 // प्रेष्योऽस्मि दासोऽस्मि च किंकरोऽस्मि त्वत्सेवकानामपि सेवकोऽस्मि। याचेऽहमित्येव न किञ्चिदन्यत् कृपाकटाक्षेण विलोकनीयः // 80 // श्री भानुचन्द्रवरवाचक चक्रवर्ती __ स्वच्छाशय: सुविहितोऽपि हि पापभीरुः। आत्मीय दुश्चरित - कीर्तन -चारुदम्भा दालोचनामिति चकार विचारचञ्चुः // 81 // (पाठान्तर) श्री भानुचन्द्रवरवाचक चक्रवर्ती स्वच्छाशयोऽपि हि जिनाधिपतेः पुरस्तात्। आत्मीय-दुश्चरितकीर्तन चारुदम्भा दालोचनां विहितवान् विधिवद् विधिज्ञः // 81 / /