________________
260
જિતેન્દ્ર શાહ
Makaranda
एकदेशेनावष्टभ्नाति तहि सावयवत्व-प्रसङ्ग एकदेशे नैवाभात्कृत्वं वा पद्येत तस्मान्न व्यापक पक्षः । नन्वात्मनः काय-प्रमाणत्वे बालशरीरपरिमाणवतस्तस्य युवशरीरपरिमाणांगीकारः कथं स्यात् इति चेत् न तस्य कुण्डलीभूत सर्पदृष्टान्तावष्टम्भेण संभवात् । यथा हि द्विहस्त-प्रमाणोऽपि सर्पः कुण्डलीभूतत्वेन वितस्त्यादि प्रमाणः समीक्ष्यते तथायमपि तत्तद्देहपरिमाणवानपि बालावस्थाकत्वेन तावत् परिमाणवानेवोपलभ्यते । इत्यात्मनः कायप्रमाणत्वे न कश्चिद्दोषलेशोऽपि । न चात्मनः काय-प्रमाणत्वे हस्तपादादि खण्डने खण्डनप्रसङ्ग इति वाच्यम् । आत्मनोऽपि खण्डनस्यास्माकमिष्टत्वात्कथमन्यथा छिन्नदेहावयवेऽपि कं कोपलब्धिः स्यात् इत्यात्मनो मध्यमपरिमाणाधिकरणत्वे देह-प्रमाणत्वमिति मनसा सहेन्द्रियस्य सम्बन्धत्वेनाव्यापि-द्रव्यस्य मनोनयनालोकत्रयस्यापि सान्निध्यात् तदानीं गगन-विषयकप्रमोत्पादप्रसङ्गस्तस्मान्नाव्यापिद्रव्यमपि सहकारिकारणम् । यस्मात्कारणात् घटादीति घटादि . . सन्निकर्षस्येव अस्य त्रयस्यापि सन्निधिविद्यत एवेति षष्ठकाव्यार्थः । ।
सन्निकर्षेण प्रमोत्पादेव्यापि-द्रव्यस्याव्यापि-द्रव्यस्य च सहकारिकारणत्वं निषिध्य गुणस्यापि विकल्पद्वयेन सहकारिकारणत्वं निषेधयति ॥
गुणोपि किं मातृगतः प्रमेयगतोऽथवा तत् सहकारिकारणम् ।
प्रमेयगः स्यान्न घटादिवद्यत् व्योम्नोपि संख्यादि गुणान्वितत्वात्।॥७॥ __ अहोश्चिद् यौगगुणोऽपि प्रमेयगतः सहकारिकारणं स्यात् प्रमातृगतो वा स्यात् इति विकल्प्य प्राग्विकल्पं दूषयति । न स्यान्न भवेत् प्रमेयगतो गुणः सहकारि कारणम् । यत्कारणात् घटादिवत् । व्योम्नोऽपि गगनस्यासंख्यादि गुणान्वितत्वात् सन्निकर्षेण तत्प्रमोत्पादप्रसङ्गः स्यात् अयमर्थः यथा हि गुणवत्वेन घटविषयकप्रमोत्पत्तिदृश्यते । तथा गगनविषयकप्रमोत्पत्तिरप्यास्ताम् । उभयत्रापि गुणवत्वाविशेषादिति सप्तमकाव्यार्थः ॥ .
अथ घटादौ विद्यमानस्य गगने चाविद्यमानस्य गुणविशेषस्य सन्निकर्षेण प्रमोत्पादे सहकारि कारणत्वं स्यादित्याशंकापनोदायाह
दव्यग्रहोत्पादक रूप( ? )वत्वा भावस्य तत्र प्रतिबन्धकत्वात् ।
न सन्निकर्षोऽपि विहायसः प्रमां नत्वक्षमः कर्तुमिहेति चेत् न ॥८॥ ननु द्रव्यग्रहस्य द्रव्यविषयक प्रमाया उत्पादकं रूपवत्वं स्यात्तच्च तत्र नास्तीति कथं सन्निकर्षेणापि तत्प्रमितिः स्यात् । सन्निकर्षेणापि तत्प्रमितौ जनयितव्यायां रूपवत्वाभावस्य तत्र प्रतिबन्धकत्वात् सन्निकर्षोऽपि विहायसो गगनस्य प्रमां कर्तुमक्षम इति चेन्नेत्यष्टमकाव्यार्थः । इत्येवं नैयायिकेन शंकिते स्याद्वाद्याह
वस्त्वस्तु तावत्प्रतिबन्धनाशात्मकं हि भावेन्द्रियमेव कारणम् । . किलातिशायि-स्वपर-प्रमायाः प्रमाणमावश्यक-भावलाघवात् ॥९॥