________________
પદ્મસાગરગણિકૃત ‘પ્રમાણપ્રકાશ”
259
सन्निकर्षे यथा व्यापिद्रव्य-सहकारि-कारणं सन्निधिरस्ति । तथा प्रकृतेऽपि तत्सन्निधिरस्तीति तेन तद्विषयक प्रमोत्पाद-प्रसंग इति पञ्चमकाव्यार्थः ।। अथान्यापि द्रव्यस्य सहकारिकारणत्वं तिरस्कुर्वन्नाह ॥
अव्यापि चेवव्यमहो ततः किं मनस्तथालोक इहेदमंबकम् ।
एतत्रयस्यापि च तत्र सन्निधिर्घटादिवद्वियत एव यस्मात् ॥६॥ व्याख्या - चेद्यद्यव्यापिद्रव्यं गगन-सन्निकर्षेण तत्प्रमोत्पादे सहकारिकरणं स्यादिति ब्रूषे मनस्तथे सति तत्सहकारि किं मनो वालोको वा अंबकमिति चक्षुर्वा सहकारि स्यात् नैतत्पक्षत्रयमपि संगच्छते । यतस्तदानीममीषां त्रयाणामपि घटसन्निकर्षवत् सान्निध्यात् न च मनसा सह तदानीं चक्षुः । सन्निकर्षाभावेन आत्मा मनसा सह संयुज्यते मन इन्द्रियेणेत्यादि प्रक्रियास्तत्रासंभवेन विद्यमानेनापि सन्निकर्षेण न गगनविषयक प्रमोत्पाद इति वाच्यम् । मनसः शरीरपरिमाणकत्वे-नेन्द्रियसन्निकृष्टत्वात् । प्रयोगो यथा-मनो मध्यमपरिमाणाधिकरणं पृथिव्यादिपरमाणुव्यणुक चतुष्टय व्यतिरिक्तत्वे सति अविभु-द्रव्यत्वात् यश्चैवं स चैवं स चैवं यथा घट इति घट इति घटवत्वस्यापि मध्यम परिमाणाधिकरणत्वे सिद्धे आत्मवद्देह परिमाणकत्वं सिद्ध्यति हि प्रयोगः मनोदेह परिमाणकं मध्यमपरिमाणाधिकरणत्वात् आत्मवत् न चात्मनो मध्यमपरिमाणाधिकरणत्वस्या-सिद्धत्वेन दृष्टान्तासिद्धिरिति वाच्यम् । आत्मनोऽपि मध्यमपरिमाणाधिकरणत्वस्य युक्तिसाध्यत्वात् तथाहि युक्तयस्तत्र प्रथममनुमानं निगद्यते । आत्मादेहप्रमाणस्तत्रैव विशेषतद्गुणोपलब्धेः यस्य यत्रेवोपलभ्यन्ते गुणाः स तत्रैव स्यात् । यथा घटः न च पक्षावृत्तित्वेनाश्रयासिद्धोऽयं हेतुरिति वाच्यम् । जले चन्द्रो गगने चन्द्रोपलम्भात् । इत्यादेरनुमानत्वाङ्गीकारेण पक्षावृत्तित्वेऽपि हेतोरनाभासत्वस्य वक्ष्यमाणत्वात् न च पुष्पादीनाम् । तत्प्रदेशापरगन्धादिगुणोपलब्ध्या यावद्गन्धप्रदेशस्थितिकत्वाभावेन पुष्पादिषु व्यभिचार्ययं हेतुरिति वाच्यं तत्र पुष्पारम्भकपरमाणूनां परप्रयत्न-स्वभावापरपर्यायाभ्यां प्रयोगविश्रसाभ्यामुपलब्धेर्नतु केवलं गन्धाधुपलभ्यते । न जातु गुणो गुणिनमतिरिच्य वर्तत इति प्रमेयकमल-मार्तण्डवचनात् । तस्मान्नायं व्यभिचारीहे(तु)रिति । ननु मन्त्रादेराकर्षणोच्चाटनादि गुणानां योजन-शतान्तरेऽपि लभ्यमानत्वेन व्यभिचार्येवायं हेतुरिति चेत् न नायं मन्त्रादिर्गुणः किन्तु तदधिष्ठातृदेवस्य तस्य तु तत्तद्देशगमनेनैव तदुपलब्धेः । ततो घटादिदृष्टान्तावष्टम्भेण देहे. एव सुख-दुःखादितद्गुणोपलब्ध्यासिद्धं आत्मनः काय-प्रमाणत्वं इति न चात्मनो दूरदेसीयकनकरत्न-चन्दनाङ्गनादिभोगात्मनो व्यापकत्वव्याहति-निवारकादृष्टस्य देहातिरिक्तदेशे सत्वात् असिद्धोऽयं हेतुरिति वाच्यम् । अदृष्टस्यानुमानेन देहाबहि: सत्वनिषेधात् तथाहि नादृष्टं देहाबहिः सम्भवति आत्मासाधारणगुणत्वात् सुखतदित्थं दृष्टस्यैव बहिः सत्वे निषिद्धे कथन्तेनात्मनो देहाबहि: सत्वं अनुमेयं कनक-रत्नादीनां तु अदृष्टजनितसामर्थ्येन देहस्थस्यैवात्मानो भोगसम्भवात् तस्माद् देहप्रमाणमेवाय मात्मेति । किं चायमात्माभोगायतनं सर्वात्मऽनावष्टभ्नीयात् । एक देशेन वा चेत् सर्वात्मना तत्क्(त्त्व) स्मत्पक्षाङ्गीकारः । अथ चेत