________________
SAN
GANA
HEE
(२) । मुरज ( मृदंग ) बन्धः ।
श्लोकः- ... मोह-नाग ! विना रम्यं, मोहनारव्यमनारतम् । तं रनामवनाय त्वं, स्मर नाग-विनायकम् ॥
अन्वयः
[हे] मोहनाग ! त्वं रनां अवनाय नाग-विनायक मोहनारव्यं अनारतं रम्य विना स्मर।
व्याख्या[हे] मोहनाग ! नाम आत्मनो मोहहस्तिन् ! त्वं रनां-निजसञ्चाराणां, इतस्ततो भ्रमणशीलानां विचाराणां अवनाय-संरक्षणाय-वारणाय; नागविनायक-स्वजातीयदुर्जनसामान्यानां शासकं, मोहनारव्यं-श्रीमन्मोहनलालजीति मुनीश्वरं; अनारत-सततं रम्य विना-रमणीयताशून्यं नाम शरीर-सौन्दर्यात्मीयभावादिं विना स्मर-स्मृतिविषयंकुरु शरणंश्रयेतिवा। अयमाशय:इह भव्यात्मानं सम्बोधयन् स्वस्मिन् स्थितं मायामोहहस्तिनमुद्दिश्याऽऽचष्टे स्तुतिकारःयत् हे मम मोहकरिन् ! त्वं निजस्य इतस्ततो विहरण-शीलानां-परमार्थतः कर्तव्यं विस्मृत्य अकर्मणि प्रवृत्तानां विचाराणां वारणाय सर्वविधमान-माया-मोह-ममत्वमतिरूपहस्तिनां अङ्कशनिभ-स्वोपदेशगिरा शासकं श्रीमोहनलालाभिधं मुनिराजं, तस्मिन् सामान्यपुरुषबुद्धिं परित्यज्य निरन्तरं भज-सेवस्त्र; यतस्ते दुर्बुद्धेविनाशः-संक्षयः स्यादिति गम्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org