________________
तान
॥ चरित्रनायकस्तुत्यष्टकम् ॥
(द्रुतविलम्बितवृत्तम् ) सुयशस्वियशोमुनिहर्षमुनि
मुखशिष्यवराचितपत्कमलम् । मुनिमोहनमोहनलालगुरुं,
प्रणमामि मुदा सुगुरुं तमहम् ॥१॥ खरपञ्चमहाव्रतमूलगुणो
तरसद्गुणसन्मुनिताऽस्य गुरोः। परिभाति मुनावधुनाऽपि जने,
प्रणमामि मुदा मुगुरुं तमहम् ॥२॥ भविपूज्यजिनेश्वरशिष्टिकर,
समयाचरणं मुनिताक्रियया । निरवद्यसुनिर्मलवृत्तिवरं,
प्रणमामि मुदा सुगुरुं तमहम् ॥३॥ यतितां प्रविहाय यकेन सुवि
हितसाधुपथं विशदं सुधृतम् । समताशमतादिगुणौधभृता.
प्रणमामि मुदा सुगुरुं तमहम् ॥४॥ अवलोकितभक्तजनोऽप्यधुना.
श्रुतिमार्गगतान् हि यदीयगुणान् । अनुमोदयते प्रविकाशयते, . प्रणमामि मुदा सुगुरुं तमहम् ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org