________________
गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ
७२५
तस्मिन्नेव क्षणे स भिक्षुरनया सश्रद्धमाभोजितः, पश्चात्प्रस्फुटिता दया परिचयं नैनं तदैवाददात् ॥ ३६ ॥ धर्मस्याचरणेन दोषरहिते सद्भाव संशोभिते, शास्त्राभ्याससुसाधुसेवनसुधा संप्लाविते पावने । कस्मिंश्चित्कमनीयकीर्तिकलिते कान्ते कुले भूतले, कश्चित्किल महनीयमानवमणिः संजायते पुण्यतः ॥ ३७ ॥ पूर्वे यत्नसमर्जितेन जनने लोकोत्तरेणात्मनः, पुण्येनात्र विना न जन्म लभते पुण्ये कुले मानवः । भूयः पुण्यमुपास्य पुण्यसदनं कृत्वा कुलं प्रोज्ज्वलम्, वैराग्यं समवाप्य मुक्तिसरणिं संयाति सः सर्वथा ॥ ३८ ॥ एको यत्र गुणैः समस्तभुवनं जेतुं समुत्पद्यते, कीर्ति स्वस्य पवित्रतां च तनुते लोकोत्तर तत्कुलम् । यस्मिन् किन्त्वभवन् क्रमेण बहवो वैराग्यवन्तो जनाः, साम्यं तस्य कुलस्य नैवभुवने कुत्रापि संदृश्यते ॥ ३९ ॥ माता ज्ञानमती तथाभयमती निर्मत्सरा चन्दना, मोहस्थाशु निरस्य पाशमसमं विभाजिता मालती । ताता च रवीन्द्रनाम विदितो रत्नानि यत्राभवन, रत्नरेभिरिदं शरण्यसदनं जातोऽस्ति रत्नाकरः ॥ ४० ॥ आज्ञा श्रीशिवसागरस्य झटिति संप्राप्य माता मुदा, प्रान्ते आन्ध्रपवित्रभव्यनगरे पक्षे सिते श्रावणे । सप्तम्याञ्च तिथौ प्रघोषितवती दीक्षा दिनं मोददम, तस्मिन्नेव मनोवती प्रमुदिता मात्रा कृता क्षुल्लिका ॥ ४१ ॥ ज्ञानालोक निरस्तमोहतिमिरं दिव्यप्रभाभासितम्, श्रीमैनादिमनोज्ञरत्ननिकरं सृष्ट्वाप्यतुष्टा सती । दीक्षामेत्य च धर्मसागरगुरोः सन्तोषमेषा गता, संज्ञां रत्नमतीति रत्नजननी योग्यामिता सादरम् ॥ ४२ ॥ मोहिन्या महनीय सन्ततिचये साध्वी सुता द्वादशी, प्रात्रासाकमुपाश्रिता जयपुरं दृष्टं निजामग्रजाम् । नेपथ्यं समवीक्ष्य साधुशिविरे मन्दस्मिता माधुरी, सम्बुद्धा सह सोदरेण सहसा मातुः समीपं गता ॥ ४३ ॥ कस्मिंश्चिदिवसे तया स्वनिकटे सस्नेहमाकारिता, पृष्टा चाध्ययनादि वृत्तमखिलं सानन्दमावेदयत् । मातुः साधुपरीक्षितापठदियं श्लोकद्वयं सादरम्, कण्ठस्थं च विधाय बोधितवती धर्म प्रवृत्ति निजाम् ॥ ४४ ॥ अन्यस्मिन् खलु जीवनेऽपि विहिता तीव्रा तपस्यानया, वैराग्यादिविधानदक्षविवुधाः सम्यक् समाराधिताः ।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org