________________
७२६]
वीर ज्ञानोदय ग्रंथमाला
तत्सर्वस्य फलं त्रयोदशतमं वर्ष नयन्त्यानया, लब्धं प्रौढजनोपलभ्यमवनं वैराग्यरूपं धनम् ॥ ४५ ॥ वैदुष्यं भवभोगरोगविरतिजैनागमे सुस्थितिः, काव्योल्लासपटुत्वमीड्यचरितं यच्चापि लोकोत्तरम् । माधुर्या प्रतिभाति तस्य वरदा सेव्यास्ति वै कारणम्, माता ज्ञानमती तपोधनवती लोके गुणैरीड्यते ॥ ४६ ॥ हिन्दीसंस्कृतभाषयोरनुपमा यस्या गतिर्विद्यते, माधुर्यं कवितासु वीक्ष्य सुमनाः को नो नरो मोदते । विख्यातं किल कर्मकाण्डविषये यस्याः परं कौशलम्, सा लोके सर्वत्र याति विजयं मैनानुगा माधुरी ॥ ४७ ॥ छोटेलालमहात्मनः कुलमणिः पुत्रः कनिष्ठः कृती, मैनाबोधितनामकामविमुखः श्रीमद्रवीन्द्रः सुधीः । सोत्साहं समधीत्य लक्ष्मणपुरे सद्विश्वविद्यालये, वर्षेऽयं जननस्य विंशतितमे सुनातकः संवृतः ॥ ४८ ॥ माता तत्प्रतिभां च धर्मममतां तस्या समां शीलताम्, दृष्ट्वा धार्मिकशिक्षणादिविषये बीजं समारोपयत् । येनास्योरसि धार्मिकी पिपठिषा तत्कालमेवोदिता, तस्या एव फलं स्वधर्मविषये या दृश्यतेऽस्योन्नतिः ॥ ४९ ॥ माता ज्ञानमती तथाभयमती द्वेऽप्यार्यिके मालती, सम्मान्यश्च रवीन्द्रनामसुमतिर्मुक्ताशया माधुरी । यं वंशं नररत्नपञ्चकमिदं प्राभूषयजन्मना, वंशस्यास्य समानतां त्रिभुवने कर्तुं क्षमः कोऽन्वयः ॥ ५० ॥ श्रद्धाकेन्द्रजिनेन्द्रशास्त्रविदुषी वैराग्यविद्योतिता, सत्यासत्यविवेकशीलसदनं सत्संगसुप्ताशया । मान्यां ज्ञानमतीमुपास्य ससुखं भूत्वा प्रशस्तार्यिका, दीक्षामेत्य च चन्दनादिममती माता भवन्माधुरी ॥ ५१ ॥ मातृ स्वसृषु कामिनी कुमुदिनी शान्तिस्तथा श्रीमती, कैलाशश्च सुभाषसंज्ञक सुधीः भ्राताप्रकाशस्तथा । सर्वेषु त्रिशलायुतेषु सततं सत्सु गृहस्थाश्रमे, ज्ञानज्योतिरिहैधतेऽघहरणं श्रीज्ञानमातुर्महत् ॥ ५२ ॥ यस्या प्रेरणया समेत्य सुमना आचार्यसंघं मुदा, दीक्षामेत्य सुरेश आत्मगुरुतः सद्योऽभवत् क्षुल्लकः । तस्या मातुरधीत्य साधु सुचिरं शमी श्रद्धया, भूत्वा संभवसागराभिध मुनिः सम्मानितः साम्प्रतम् ॥ ५३ ॥ । माता प्रातरुपस्थितं प्रतिदिनं भक्तौद्यमाबोधयत्, मध्याह्ने च तथैव पाठितवती पाठार्थिनः श्रावकान् ।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org