________________
७२४]
वीर ज्ञानोदय ग्रंथमाला
मायामोहतमोऽभिभूतजगतः कल्याणकामा कलौ, हर्तुं तत्तिमिरं स्वरत्नविभया या स्त्रीत्वमत्रागता । तज्जन्ये रमणीयरत्ननिचये ज्ञान प्रभाभास्वरम् माता ज्ञानमती तु रत्नमतुलं विद्योतते भारते ॥ २८ ॥ पूर्वस्मिन् जनने स्वकर्मकलितं संस्कारमाचिन्वती, दक्षत्वञ्च दयादमादिविषये सन्दर्शयन्ती सदा । ज्येष्ठयं तनुजानुजादिविषये दत्तावधाना सती, साहाय्यं व्यदधाद् विवेकसहितं कार्येषु मातुर्मुदा ॥ २९ ॥ प्रातः कृत्यमियं गृहश्च विमलं कृत्वा पवित्रा स्वयम्, भूत्वास्नानविधेश्च शुद्धवसनं धृत्वा शरीरे ततः । गत्वा मन्दिरमाशुपूर्णविधिना पूजाञ्च कृत्वा पुनः, स्वाध्यायञ्च विधाय कार्यकरणे भूयः प्रवृत्ताभवत् ॥ ३० ॥ सायं साधु समाप्य भोजनविधिं गत्वा पुनर्मन्दिरम, श्रद्धाप्रेम समन्वितेन मनसा कृत्वा च नीराजनम् । नित्य शास्त्रसभाञ्च सेवितवती चागत्यभूयस्ततः, । मातापितृसहोदराञ्च सुकथा अश्रावयत्सादरम् ॥ ३१ ॥ कुर्वन्ती गृहकार्यमत्र सकलं जैनागमे सुदृढा, पिथ्यात्वं परिहर्तुमात्मजननीं प्राबोधयत् सन्ततम् । संरुद्धापि समेत्य पुण्यसमयं वाराद्यबंकी पुरे, दीक्षामेत्य पुरः समस्तजगतामादर्शमस्थापयत् ॥ ३२ ॥ नो शिक्षामपि यत्नपूर्वकमियं बाला समासादयत्, याता नो पठितुं प्रसिद्धनगरे कुत्रापि शिक्षालयम् । वैराग्यञ्च तथापि ज्ञानममलं जातञ्च यद्यौवने, सत्सर्व प्रथमे कृतस्य जनने पुण्यस्य भव्यं फलम् ॥ ३३ ॥ माता शिक्षयतीह सन्ततिचयं शिक्षानुरूपं निजम्, सर्वत्रैव समान एव नियमो भूमण्डले वर्तते । किन्त्वेषा तु सदैव शिक्षितवती धर्म निजां मातरम्, पुण्यं चेत् प्रथमं न तर्हि तनया जाता कथं शिक्षिका ॥ ३४ ॥ वैदुष्यं विशदं विशिष्ट विनयं धर्मेऽतिरिक्तां गतिम्, विद्याया व्यसनं विशुद्धमशनं शुभ्राम्बराच्छादनम् । मायाया हरणञ्च मुक्तिवरणं द्राक्षेव सम्भाषणम, दृष्टैः सर्वगुणैः प्रतीयत इदं मैनास्ति वैशारदा ॥ ३५ ॥ द्वारस्थं समवीक्ष्य भिक्षुकमियं श्रद्धामयी मोहिनी, चास्मै भोजय पुत्रि ! पायय जलं मैनां यदाज्ञापयत् ।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org