SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ ७२३ सभ्यासौम्यसमूहसंगसुरतिः सम्मानवारांनिधिः, मान्या ज्ञानमती मनांसि महतामामोदयन्ती स्थिता ॥ १९ ॥ गुण्योद्गीतगुणा गुणज्ञगणिनी गंगेव गेया गणैः, शान्ता शुभ्रपरिच्छदा च शुचिता शीलादिभिश्शोभिताः । न्यायज्ञा नियमादिनीतिनिपुणा नम्रा प्रणम्या समैः, माता ज्ञानमती महाव्रतवती केषां न वन्द्या भुवि ॥ २० ॥ आत्मोद्धाररतापि सर्वजगतः सन्मार्गसंदर्शिका, सर्वेषामुपकारदत्त धिषणा धर्मध्वजोत्तोलिका । रागद्वेषविमुक्तमुक्तिनिरता निर्धान्तचित्ता तथा, नूनं ज्ञानमतीह भूमिवलये धत्ते विशिष्टं पदम् ॥ २१ ॥ छोटेलालमहोदयेन विहितं यच्चातितीव्र तपः, साधूनां संघोऽपि शुद्धमनसा सम्यक्समाराधितः । जैनेन्द्रोऽपि च पूर्वजन्मनि मुदा सश्रद्धमासेवितः, सत्सर्वस्य फलं विशिष्टतनया तेनेयमासादिता ॥ २२ ॥ धन्योऽभूद् भुवनेषु भद्रजनको वंशो वरः श्रेष्ठिनः, धर्मोपान्तधनस्य धीरमनसो जैनेन्द्रसेवाजुषः । छोटेलालमहोदयस्य सुधियः श्री पितृपादस्य च, धन्यस्यापि सुयोग्य सूनुसुतया श्रीज्ञानमत्या ध्रुवम् ॥ २३ ॥ छोटेलालसुतं प्रसूय सुधिया धन्यं कृतं जीवनम्, धन्यायेन सुकर्मधर्मयशसा पश्चात्कुमारेण च । तस्यैवात्र सुतस्य सन्ततितपः प्रत्यक्षमेवैधते, मुक्तेस्तत्तपसैव तस्य धनिनो द्वारं समुद्घाटितम् ॥ २४ ॥ लोके शुभ्रतमा निगद्यत इयं या शारदी पूर्णिमा, तस्याः कारणमस्ति तत्र शशिनः सर्वोत्तमा चन्द्रिका । श्रद्धाभक्तितपोभवैस्त्वगणितैः श्रीज्ञानमत्या गुणैः, तद्भूतैश्च यशोभिरद्य नियतं भूता विशिष्टास्ति सा ॥ २५ ॥ सौम्या श्रीसुखपाल दासतनुजा पित्रापि संपोषिता, मान्या मोहमदादिदोषरहिता संस्कारयुक्ता तथा । शिक्षां दत्तवती सहव पयसा यस्यै प्रसूमोहिनी, सा नो ज्ञानमती भवेन्नहि कथं ज्ञानात्मिका ज्ञानदा ॥ २६ ॥ छोटेलालमुपेत्य पावनपतिं चित्तानुरूपं सती, सत्तीर्थादिविलोकनादिमुदिता स्वाध्यायशीला तथा । साध्वी सत्पुरुषानुतोषणपरा सत्संगसेवोत्तमा, यस्याः स्याज्जननी भवेन्न तनया सा सर्वसेव्या कथम् ॥ २७ ॥ १. धन्यकुमार सेठ छोटेलालजी के पिता थे। २. सुखपालदासजी मां मोहिनी के पिता थे। Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy