________________
गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ
७२१
श्रीमद्रामसुजन्मविश्वविदिते तत्रावधाख्ये वरे, छोटेलालपितुः पवित्रभवने ग्रामे टिकैताभिधे । चन्द्रांकांकसुधांशुसंख्यकशुभे संवत्सरे वैक्रमे, मासे चाश्विनसंज्ञकेऽतिसुखदे पक्षे सिते शोभने ॥ २ ॥ प्रज्ञाशालिसुकार्यशंसिततमे श्रीपूर्णिमापर्वणि, सर्वोत्कृष्टसुधांशुशुभ्रकिरणैरालोकितायांनिशि मोहिन्या महनीयकुक्षिगगनात् सम्भूतभव्योत्सवा, जाता जैनचकोरपुञ्जसुखदा मैनामहाकौमुदी ॥ ३ ॥ मोहिन्याः श्वसुरः स्वभावसरलः श्वश्रूस्तथा तादृशी, ह्यासीदन्यसमेऽपि सौम्यमतयश्चासन् सदस्या गृहे । ते प्रातर्नियमेन भक्तिसहिता गत्वा सदा मन्दिरम्, गृह्णन्ति स्म जलं कुलञ्च सकलं रात्रौ न भुंक्ते स्म तत् ॥ ४ ॥ एकैवात्र करोति कापि घटना पुण्यात्मनः प्राणिनः, संयोगादवितर्कितापि घटिता नूनं नवं जीवनम् । तेनैवात्र विधाय धर्म्यमखिलं कार्य हि लोकोत्तरम्, लोकेऽस्मिन् कमनीयकीर्तिकलिकां मुक्तिंतथाप्नोति सः ॥ ५ ॥ श्रीबुद्धादिवदेव वीक्ष्य विमला मैनात्मजा नाटकम्, संसारं ह्यवगत्य साररहितं तस्माद्विरक्ताभवत् । वन्दयं चाष्टदशाब्दमात्रवयसि श्रीब्रह्मचर्य व्रतम्, देशानन्तरभूषणाद् धृतवती ह्याचार्यपादादियम् ॥ ६ ॥ कार्येऽस्मिन्नवधूय विघ्नविपदं भव्यंभजन्ती व्रतम्, प्राप्ता चारुचरित्रतुष्टमनसश्चैत्राख्यमासे ततः । वर्षाम्यन्तरमेव पूर्वगुरुतो दीक्षानया क्षुल्लिका, दत्तं वीरमतीति नाम गुरुणा चांगीकृतं सादरम् ॥ ७ ॥ मान्याचार्यमनांसि तीव्रतपसा, सन्तोषयन्ती सदा, जैनाचारविचारपालनपरा, प्रज्ञावती क्षुल्लिका । राजस्थानगते वरिष्ठविदुषां विद्याविभाभास्वरे, माधौराजपुराख्यपुण्यनगरे वर्षत्रयानन्तरम् ॥ ८ ॥ श्रीवीराद्य पदस्य सागरमुनेः श्री शान्तिसूर्याज्ञया, संघं साधुप्रविश्य पूर्णविधिना, जाता पुनश्चार्यिका । दीक्षान्ते गुरुणा विचार्य विहितं ज्ञानानुरूपं पुनः, प्राप्तं ज्ञानमतीति नाम विमलं येनास्ति बोध्याधुना ॥ ९ ॥ स्वल्पे चायुषि सावधानमनसा संसेव्यमाना गुरुम्, ज्ञानं प्राप्य प्रशस्तमाशु विदुषी वृन्दे विशिष्टाभवत् ।
१. आचार्यश्री वीरसागरजी महाराज २. चारित्रचक्रवर्ती आचार्यश्री शांतिसागरजी की आज्ञा से ।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org