SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ७२०] वीर ज्ञानोदय ग्रंथमाला "श्रीज्ञानमती मातः कुसुमाञ्जलिः " १. विक्रम संवत् १९९१ में । - रचयिता शर्मोपाह्नः रामकिशोरः, खुरजास्थ श्रीराधाकृष्णसंस्कृतमहाविद्यालयप्रधानाचार्यः 'प्राक्कथनम्' मेरठजनपदान्तर्गत 'बड़ौत' नगर स्थितदिगम्बरजैनमहाविद्यालये स्नातकोत्तर संस्कृतविभागाध्यक्ष पदजुषा, वैदुष्यावाप्तयशसा, सुमनसा आचार्यश्रीसोबरनसिंहविदुषा साग्रहं विनिवेदितोऽहं जैनसमाजसमादृताया अपि स्वाविदिताया अदृष्टायाश्वार्यिकारत्रोपाधिभूषितायास्तपः पूताया मातुर्ज्ञानमत्या विषये श्लोकशतं निर्मातुं सहर्षमंगीकृतवानिति विचित्रः संयोगः । कस्यचिदपि विषये कविताकरणात्पूर्वं तद्विषयकं ज्ञानमावश्यकं भवतीति सामान्यनियमानुसारं आचार्यश्रीसोबरनसिंहसमर्पितं साहित्यं मयावगाहितम् । जैनदर्शन सर्वथानभिज्ञेन, कविताकलानवाप्तसमज्ञेन, तत्साहित्यावगाहनेन यदवगतं मातुर्वैशिष्ट्यं तदवाप्तविश्वासेन, विश्वासबर्धितोत्साहेन च प्रत्यवायपटलमवधूय यदिदं श्लोकशतं मया विरचितंतंत्र कारणमस्ति केवलं प्रभुकृपा मातुर्महत्त्वञ्च । युवावस्थायां विषयविरागो मुक्त्यनुरागः गुरुजनभक्तिः, धर्मप्रसक्तिः, भ्रमापहरणं सत्याचरणं, परोपकरणं ज्ञानवितरण शुद्धाहारः श्रेष्ठविहारः, धर्मप्रचारश्चारुविचारः विद्याव्यसनं मोहनिरसनं शताधिकग्रन्थविरचनं पीयूषवचनं भव्यभावना कल्याणकामना, लोकरक्षणं श्रेष्ठशिक्षणं सर्वसम्मता इमे विशिष्टगुणाः सर्वयापरिचितमपि मामाकृष्टवन्तो नात्र संशीतिलेशः । Jain Educationa International भौतिकं वैभवं नानुगतं नानुगच्छति नानुगमिष्यति कमपि जनमिति जानन्तोऽपि जना अविद्यावशान्तदर्थमेवाहर्निशं महान्तमपि क्लेशमविगणय्य यतमाना दुर्गति भजन्ति तानेव दुर्गतिभाजो जनानुवाचरण भाषणाभ्यामुद्धर्तुमेवायान्ति भूतले महात्मानो मातृतुल्याः। इदमेव पवित्रलक्ष्यमधिगन्तुं सर्वविधं प्रयासं विदधाना "माता ज्ञानमती शतं वर्षाणि जीवतात्" एवं प्रभुं प्रार्थये । 1 जीवन्मुक्ता अपि महात्मानः 'कर्मणामनुकरणेन नोऽनुकरणशीलो लोकः स्वकल्याणं करोतु' - दिव्ययानया भावनया कल्याणकारीणि कर्माणि कुर्वन्ति योगिराज श्रीकृष्णस्य - 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । ' स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥' 1 अपि च मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । इति वचनमुक्तार्थं प्रमाणयति एवमेव माता ज्ञानमती स्वजीवनेऽनुकरणीयानि यानि कृतवती करोति चकर्माणि तेषां फलमपि प्रत्यक्षं प्रतिभाति कुसुमाञ्जलिरियं सन्तोषयिष्यति सुधिय इत्याशासे । | अवेदं प्रारभ्यते - देवेन्द्रादिभिरर्च्यमानमनिशं विद्याधरोपासितम् सम्मान्यैर्ऋषिभिस्तथा मुनिवरैः शश्वत्समाराधितम् । ध्यानावाप्तविभूतिभूषिततनुं तीव्रव्रतं बोधदम्, संसन्मध्यविराजमानमरुजं श्रीमज्जिनेन्द्रं नुमः 11 यत्रासावृषभो बभूव भगवान् आद्यः सुतीर्थकर, तत्पुत्रः प्रथमश्चकार भरतो राज्यञ्च निष्कण्टकम् । साधुस्तोमतपः स्थली च सरयूनद्यापि या सेविता, सायोध्यानगरी तनोति सततं प्रान्तं पवित्रं हि यम् ॥ १ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy