SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३०७ आर्यिकारत्नोपाधिविभूषितायाः गणिन्याः श्री ज्ञानमत्याः व्यक्तित्वं कृतित्वञ्च - लेखक-महेन्द्रकुमारो "महेशः" शास्त्री महावीरजिनं नत्वा, स्मृत्वावाणी सरस्वतीम् । लिखामि ज्ञानमत्याश्च, संक्षेपेण हि जीवनम् ॥१॥ सकलगुणनिधाना, ज्ञानचारित्रयुक्ता, । विबुधनिचय सेव्या, लोकमान्या प्रविज्ञा । जगजनहितकी, द्वीपजम्बू प्रणेत्री, । जयति जगतिलोके, ज्ञानमत्यार्यिकासा ॥ २ ॥ "सजातो येन जातेन यातिधर्मःसमुन्नतिम्" सम्प्राप्येदम् चिन्तामणिसमाम् नरजन्म, सम्यग्दर्शन ज्ञानचारित्ररूपम् रत्नत्रयम् धृत्वा तेन निजपरात्महितम् साधितम् तस्यैव मानव जन्म सफ्लम् सार्थकञ्च भवेदन्यथा पशुवन्नरजन्मेत्याचार्यैः प्रोक्तम् । पूर्वोक्तार्षवचनानुसारेण गणिनीज्ञानमत्यार्यिकायाः नृजन्मसफलं सार्थकञ्च न चात्रसंशयः ।। इयङ्किलज्ञानमतीमाताजी ज्ञानावरणीयक्षयोपशमेन अधीतनिखिलन्यायव्याकरण धर्मसाहित्यादिसंस्कृतप्राकृतग्रंथरत्ना, सज्ज्ञानसंयमतपो- धनानाम् चा रित्रचक्रवर्तीशांतिसागरवीरसागरदेशभूषणप्रभृतिदैगम्बराचार्याणाम् सानिध्यम् सम्प्राप्य स्वयं ज्ञानचरित्र धना मोक्षमार्गिणीसंयमधारिणीस्त्रीणां सर्वोच्चसंयमविभूषिताचाभवदितिचित्रम् । तस्याः जीवनांशोऽत्र लिख्यते मया महेशेन । निखिलजिनवाणीसमुद्भुतचतुरनुयोगप्रतिपादितपूर्वाचार्य वर्यवृन्दलपसाधनलिखितशास्त्रसमुद्रनिचयमंथन निःसारितग्रन्थरत्ना ज्ञानतपोसंयमसच्चारित्रयुता समस्तदेशस्थ विद्वदमण्डलमान्याचेयं ज्ञानमत्यार्यिकारत्ना भारतदेशमध्योत्तरप्रान्तान्तरगते टिकैतनगरनाम्नि सुरम्यनगरे दानधर्मपरायणश्रेष्ठीवर्य श्रीछोटेलालस्य श्रावकधर्मप्रतिपालकशीलधर्मयुतायाः भार्यायाः श्रीमोहिनीदेव्याः कुक्ष्याम् ईस्वी सन् १९३४ तमे वर्षे मेघपटलविरहितशरदपूर्णिमायाः पूर्णचन्द्रस्य चान्दनीयुक्तनिशायां पूर्णचन्द्रसमा प्रभायुताइव जन्मलेभेतराम् । प्रथमपुत्रीरूपेण जन्मसंजाते मातृपितृबन्धुपरिवारजनाः सर्वे कन्यारत्न सम्प्राप्ते महदानन्दम् प्रावतः । तदा कन्यायाः मैना चेतिनाम संघोषितम्। इयङ्किला मैना सौन्दर्यादिकारणेन सर्वजनानंदकारी जाता। केवलमष्टवर्षवयस्येव गृहतः मैना कुरूढिसमूहम् समूलं क्षयञ्चकार । तीव्रबुद्धिबलेनेयं मैना पठन पाठनादि कार्ये विलक्षण प्रतिभानधारयन्ती जनेषु विस्मय कारितवती त्वभवत् । अस्याः छहढाला पद्मनंदिपञ्चविंशतिकादि धार्मिकग्रंथानां पठनेन प्रारंभतः वैराज्ञभावमवलोक्य सर्वे गृहपारिवारिकजनाः विस्मिताः शंकिताचा भवन्। ईस्वीसंवत्सरे सन् १९५२ तमे वर्षे ज्ञानध्यानतपःसंयमधनः परम्दैगम्बरः श्री देशभूषणाचार्यः टिकैतनगरे समायातः । समासाद्य तेषां दर्शनं सङ्गमञ्च तथा च तेषामेव धर्मोपदेशम् समाकर्ण्य मैनायाः हृदये वैराज्ञभावो जागृतः । तदनंतरम् बाराबंकी नाम्निनगरे तेषामेवाचार्यवर्याणाम् देशभूषणाणाम् वर्षायोग संजाते देशभूषणमहाराजतः मातृपितृबंधुप्रभृतिपारिवारिक जनानामतिकाठिन्येन स्वीकृति संप्राप्य सप्तमप्रतिमायाः व्रतोमियं स्वयं स्वीचकार । ब्रह्मचारिणी मैना चोत्तरोत्तरम् वैराज्ञभावंवृद्धिंगता संप्राप्तज्ञानसंयमधना मोक्षपथानुगा सन् १९५२ तमे संवत्सरे तस्मादेव देशभूषणाचार्यात् श्रीमहावीरजीआतिशयतीर्थक्षेत्रे क्षुल्लिकां दीक्षां जग्राह । तदा वीरमती क्षुल्लिकेति नाम्ना ख्यातिम् सम्प्राप्तेयं मैना। यदा सन् १९५५ तमे संवत्सरे चारित्रचक्रवर्तीमहदाचार्यवर्येण श्रीशांतिसागरदाक्षिण्येन यमसल्लेखना धृता तदेयङ्किल चरित्रनायिका वीरमतीक्षुल्लिका यमसल्लेखनायुक्ताचार्यवर्याणाम् दर्शनार्थम् कुंथलगिरि तीर्थे समागता। तदा तत्र चतुर्थकालसदृशयमसल्लेखनामवलोक्यास्यांहृदये परमाशांतिः प्रसन्नताच सञ्जाता। क्षुल्लक दीक्षाविभूषितात्वियम् वीरमतीक्षुल्लिका सत्साधुतपस्वी चार्यिकादीनाम् सत्समागमनं समासाद्य ज्ञान ध्यानयोर्निरन्तरं प्रगतिञ्चकार । क्षुल्लिकादीक्षाप्राप्ता वीरमती क्षुल्लिका शीघ्रमार्यिकादीक्षाम् गृहीतुमैच्छत्। ईदृशः सुसमयोऽपिसंजातः यत् राजस्थानप्रान्तारगते माधोराजपुरानाम्निनगरे ज्ञानध्यानतपोनिधि वीरसागराचार्यवर्येण वीरमतीम् क्षुल्लिकाम् समारोहपूर्वकेणार्यिकादीक्षा प्रदत्ता । तदा तस्याः ज्ञानमतीति नामघोषितम्। समादाय त्वार्यिकादीक्षां त्वियं ज्ञानमतीमाताजी धर्मसिद्धान्तन्यायव्याकरणप्रभृतिसंस्कृतप्रा कृत ग्रंथानाम् ज्ञानम् सम्प्राप्य यथानाम तथा गुणवती बभूव। विशिष्ट ज्ञानसंप्राप्तेयं माताजीआदिमतीपद्मावतीजिनमतीश्रेष्ठमत्यादिस्वशिष्याभिः सह विविध ग्रामनगरतीर्थेषु विहारं कृत्वा धर्मोपदेशः प्रचुरधर्मप्रचारञ्चकार । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy