SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३०५ वसन्ततिलका - एतादृशं सदुपदेशमियं सहर्ष, श्रुत्वा तथैव सहसा चरितुं प्रवृत्ता । सम्यविचार्य मनसा सततं कृतं चेद् नास्त्येव तत् किमपि कार्यमसम्भवं यत् ॥ २० ॥ उपजाति - द्विसप्तरत्नेन्दु मितेशवीये संवत्सरे प्रेरणया भवत्याः । जैनत्रिलोकाभिधसंस्थयैक क्रीत्वा नवंमण्डलभूमिभागम् ॥ २१ ॥ तीर्थे प्रशस्ते महतां मुनीनां, पुरे प्रणम्ये ननु हस्तिनाख्ये । चैत्यालयाधैर्ललितस्य जम्बू द्वीपस्य निर्माणमकारि तत्र ॥ २२ ॥ इन्द्रवज्रा - ज्ञानस्य सागरमसख्यजनाभि, नन्द्यम्, आचार्यवर्य मखिलार्यगुणैः प्रशस्यम् । श्रीवीरसागरमुनि प्रणिपत्य लोके कीर्तिं च तस्य विमलामचलां विधातुम् ॥ २३ ॥ रत्नर्षिरत्नरजनीश मितैश वर्षे, दीक्षागुरोर्विजयिनः स्मरणीय नाम्ना । संस्थापितं सुरवचो-रमणीयविद्या पीठं प्रसिद्धगुरुभिर्महितं भवत्या ॥ २४ ॥ या संस्कृतिर्लसति भव्यगुणा पुराणी, तद्रक्षणं किल विचक्षणवृन्दसाध्यम् । यावच्च नागरगवी हृदयंगमा स्यात्, तावत् स्वदेशचिरगौरवमप्यगम्यम् ॥ २५ ॥ शार्दूलविक्रीडित - तस्मात् संस्कृति-संस्कृत-प्रणयिनः शास्त्रार्थपारंगमा, विद्वांसो जिनधर्मकर्मनिपुणास्तद्रक्षणे व्यापृताः। संग्राह्याः सुपरीक्ष्य च स्थिरगिरः धर्मप्रचारप्रियाः । सम्प्रेष्याःसरलाश्चरित्रविमला देशे विदेशेष्वपि ॥२६॥ अनुष्टुप् - पंचाशत् संख्यकाः शिष्या भवत्या सम्यगीरिताः । मुन्यार्यिकात्वमापना ीक्षया विहरन्त्यलम् ॥ २७ ॥ चारित्रचक्रवासीद, आचार्यः शान्तिसागरः । परम्परायां तस्याभूदाचार्योऽजितसागरः ॥ २८ ॥ उपजाति - भवत्प्रसादादभवत् स पट्टा धीशश्चतुर्थोऽत्र बहुश्रुतश्च । १- ईस्वी सन् १९७२ २- सन् १९७९ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy