SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१९९ माता ज्ञानमती तपस्वि-विदुषी ज्ञानस्य वारानिधिः, सर्वाज्ञानमयं करोतु तिमिरं नष्टं सदा चेतसः ॥ इन्द्रवज्रा छन्द - व्याधिः पिपासा महदस्ति लोके, तस्याः विनाशस्त्वरितं यथा स्यात् । तुभ्यं हि मातः ! सलिलं समस्तम्, भक्त्या वयं सादरमर्चयामः ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा संसारातपतप्तजीवनिचयाः कष्ट सहन्ते भृशम्, तेषां कष्टनिवारणाय गणिनी सद्बोधदानक्षमा । प्राप्तुं शीतलतां यथा जगति सेवन्ते जनाश्चन्दनम्, माता ज्ञानमती तथा प्रवचनैः, शान्तिं परां यच्छतु ॥ ज्ञात्वा प्रशान्तेः परमं युपायम्, नष्टा रुचिश्चन्दनकेसरादौ । द्रव्याणि सौगन्ध्यमयानि तत्मान्, तुभ्यं हि मात्रे मनसार्पयामः ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा संसाराब्धिपयःकुचक्रभ्रमिताः कारिभिः पीडिताः, संसाराब्धितितीर्षवो हि भवती नावं वयं प्राप्नुमः । ज्ञानानन्दमयीं निजात्मनिरतां वैदुष्य-पारंगतां, शुद्धैश्चन्द्रविशुभ्रतन्दुलचयैः संपूजयामो वयम् ॥ पारं हि नेतुं भवसिन्धुदुःखान्, मातस्त्वमेवासि समर्थनौका । कुन्देन्दुशुभ्रानवगन्धयुक्तैः, त्वाम् पूजयामोऽक्षतरम्यपुंजैः ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अक्षतं निर्वपामीति स्वाहा तारुण्ये कुसुमायुधस्य निशितान् वाणान् हिमेनाच्छिदत्, चांचल्यं मनसो यथा दृढतया ध्यानाग्निभिज्वलितम् । तस्याः ज्ञानमतेरवाप्य शरणं कन्दर्पवाणाः वृथा, तस्मात्तां कुसुमादिभिरभिनवैः संपूजयामो वयम् ॥ कामेषवः सन्ति वृथैव तेषाम्, ये मातरं ज्ञानमती भजन्ते, चारित्र्य-गंगोज्वल-सौम्यकान्तिम् तां जैनसाध्वी सुमनैर्भजामः ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै कामवाणविनाशनाय पुष्पं निर्वपामीति स्वाहा किंकर्तव्यविमूढतां हि भजते लोके बुभुक्षुर्नरः, तृप्तो लौकिकभोजनैहि मया दृष्टो धरायां जनः । सर्वाण्येव सुभोजनानि मनसायॆन्तेत्वदने मया, याचे मुक्तिरसायनं हि सुखदं क्षुद्रोगनाशक्षमम् ॥ जैनार्यिकायाश्चरणारविन्दे, नैवेद्यवातेहि समर्पयामः । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy