SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १९८] Jain Educationa International अनुष्टुप - पूज्या ज्ञानमती माता, आर्यिका चन्दनामती क्षुल्लकस्सागरो मोती, वर्तन्ते हस्तिनापुरे ॥ तेभ्यस्तत्रस्थ साधुभ्यश्चान्येभ्योऽपि नमाम्यहम् । चतुर्विंशतितीर्थेशां संस्मरामि प्रतिक्षणम् ॥ १० ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्थिकायै जयमाला पूर्णा निर्वपामीति स्वाहा इत्याशीर्वादः पुष्पांजलिं क्षिपेत् । वीर ज्ञानोदय ग्रन्थमाला अथ जैनार्यिका सुसाध्वी ज्ञानमती पूजा शार्दूलविक्रीडित छन्द - साध्वीं ज्ञानमतीं प्रशान्त सरलां निन्दा - प्रशंसा समाम्, ज्ञानाम्भोज विहारिणीं सुगणिनी मोक्षार्थिनीमार्थिकाम् । राग-द्वेषविवर्जितां गतमयां सन्तोष-धैर्याम्बुधिम्, त्यागानन्दमयीं विलक्षणमति सम्यक्त्वरत्नोज्ज्वलाम् । आत्मोद्यान-विहार केलिरसिकां मोशेच्छया त्यागिनीम्, सल्लोक-विकार- भोग-विषयांस्त्यक्त्वा तपश्चारिणीम् । भव्यान् मोक्षमतीन् प्रबोधनपरां वाण्या सुधासिक्तया, पूज्यां जैनमत प्रचारधन रुचि पूजानताः संस्तुमः ॥ इन्द्रवज्रा छंद स्थापना नश्यन्ति दुःखान्यखिलानि तेषाम्, कुर्वन्ति मातस्तव वे सुपूजाम् । तस्माद् वयं मोक्षसुखाप्तिकामाः, त्यां स्थापयामो निजचित्तमध्ये आगच्छ, मातः मम मानसे त्वम् । सान्निध्यलाभः सुखदस्त्वदीयः । पूजाप्रभावात्त्वद्भक्तिनिष्ठाः, निर्दोषभावं त्वरितं लभन्ते ॥ शार्दूलविक्रीडित छंद - ॐ ह्रीं श्रीगणिनीज्ञानमती मातः ! अत्र अवतर अवतर संवौषट् आह्वाननं । ॐ ह्रीं श्रीगणिनीज्ञानमती मातः ! अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । ॐ ह्रीं श्रीगणिनीज्ञानमती मातः ! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं । अथाष्टकं - रचयिता : प्रकाशचन्द्र जैन, प्राचार्य श्री समन्तभद्र दि० जैन संस्कृत विद्यापीठ दरियागंज, दिल्ली मालिन्यं हरतीह वारि सकले शुद्धं यथा वास्तवम्, चित्तं नो लभतां तथैव परमां शुद्धिं हि ज्ञानाम्बुना ! For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy