SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१९७ श्रुत्वा त्वदीय मुखतश्च जिनेन्द्रवाणी । ज्ञानप्रदीप उदितोऽस्ति ममात्ममध्ये ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा कर्माष्टकैः सततपीडितमात्मतत्त्वः । नित्यं परिभ्रमति दुःखसमुद्रमध्ये ॥ त्वत्पादसंबलमवाप्य मदीय चित्तं । ध्यानाग्निना तपसि तद्दहनं करिष्ये ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा पुण्यं फलं प्रखरपापफलं च द्वाभ्याम् । कालं मदीय सकलं विफलं व्यतीतम् । बाह्यांतरंगसुखरूपफलं हि मोक्षम् । तत्प्राप्तये तव पदाम्बुजमर्चयामि । ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा द्रव्याष्टकैः सुजलचन्दनतन्दुलाद्यैः । सम्पूज्य भक्तमनसा तव पादयुग्मम् ॥ स्थित्वा निजात्मनि पुनश्च तपः प्रकुर्वन् । सद्यो ह्यनर्घनिर्वाणपदं प्रलप्स्ये ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै अनर्थ्यपदप्राप्तये अर्घ्य निर्वपामीति स्वाहा जयमाला मातस्तव चरणयुगं प्रपूज्य, निर्द्वन्द्वशान्तिसुखमनुभवामि । तव दर्शनमपि कृत्वा मदीय, हृदये जिनभक्तिःसमभ्युदेति ॥ १॥ जय ज्ञानमती गणिनि त्वमेव, जगति प्रथिता जिनशारदेव । तव सदुपशतोभव्यजनाः, हृदि वीतराग सुखमानुवन्ति ॥ २ ॥ लघु वयसि गणिनि रत्नत्रयाणि, स्वात्मनि त्वया परिधारितानि । तद्रत्नसम्पदं समवलम्ब्य, लोकत्रयाधिपतिरपि भवेत् ॥ ३ ॥ अष्टादशवर्षायुषि च त्वया, सर्वप्रतिमाव्रतसंधूतानि । तव भक्तिरतान्याः युवतयोऽपि, व्रतसंयमादिपरिपालितानि ॥ ४ ॥ जिनपूजाहेतुविनिर्मिता हि, लोकैर्जिनबिम्बजिनालयाश्च । किंतु त्वत्प्रेरणयैव अम्ब ! जम्बूद्वीपोऽत्रसुनिर्मितोस्ति ॥ ५ ॥ शास्त्राणि त्वया रचितानि अम्ब ! अनुयोगचतुष्कयुतानि यानि । तेषामध्ययनकृतेऽवभाति. साक्षात् सरस्वती प्रकटितेव ॥ ६ ॥ तव रवितशास्त्र पठनेन अम्ब ! ज्ञानस्य वहति गंगा सदैव । तस्मात् प्रसिद्धिरभवत तवैव, जय ज्ञानमती जय ज्ञानमती ॥ ७ ॥ तव पादयुगे शरणं प्रपद्य, संसारभ्रमण नएं भवेत् ।। नव देवि शरणमहमागतोऽस्मि, भवदुःखविनाशयितुं निजस्य ॥ ८॥ ज्ञानादि देवि ! रत्नत्रयाणि, नत्त्वा त्वदीय चरणं नमामि । मह्यं प्रदातु सुखशान्तिशिवम्, तीर्थं नमामि हस्तिनापुरम् ॥ ९ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy