SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९०] वीर ज्ञानोदय ग्रन्थमाला शार्दूलविक्रीडितम् - सम्यग्ज्ानवती सुशिष्यबहुला, विद्यालय-स्थापिका । ज्योतिर्ज्ञान-प्रसारिका भगवती सर्वत्र सम्पूजिता ॥ या साध्वी रचनां सुवर्णरुचिरां तीर्थोपमानां व्यधात् । सेयं ज्ञानमती सतां विजयते रत्नत्रयैर्भूषिता ॥ ७ ॥ आचार्यस्य प्रथित विदुषो वीरसिन्धोः सुशिष्या । सैषा जाता परमविदुषी, शिक्षया दीक्षया च ॥ या सम्प्राप्ता परमपदवीमार्यिकाणां प्रधानाम् । देशे देशे नगरनगरे कीर्त्यते नाम यस्याः ॥ ८ ॥ मन्ताक्रान्ता - शिखरिणी - महाप्रीतिं पित्रोः विपुलसखसौविध्यमखिलम् । सुबालावस्थायामपि धृतव्रता सर्वमजहद् ॥ स्वदेशे सम्प्राप्त प्रथितगुरुपादं गतवती । ययाचे तां दीक्षाममरनरलोकेषु महिताम् ॥ ९ ॥ शिखरिणीवृत्तम् - यदीयं विज्ञानं विविध-विबुधाश्चर्यकरणम् । यदीया सम्प्रज्ञा भुवनभरिता ग्रन्थरचनैः ॥ सचित्राः सद्ग्रन्थाः सुनयनियमैलॊकललिताः । लभन्ते सम्मान प्रवचनपरैः सर्वसुजनैः ॥ १० ॥ अनुष्टुप् - सरस्वती सभामध्ये, सुलक्ष्मी ज्ञानरूपिणी । कल्याणी सर्वलोकस्य, माता ज्ञानमतीमता ॥ ११ ॥ आर्यिकारत्न श्री ज्ञानमतीस्तुतिः - एम०पी० चन्द्रराजशास्त्री, मूडबिद्री वन्दे श्रीजिनपादाब्ज-शृंगी पुष्पविहारिणीं । भ्रामरी वृत्तिमाश्रित्य भव-भ्रमणनाशिनीं ॥१॥ गुणमुख्या गुणज्येष्ठां, गुणोपेतां गुणाग्रणीं । गुणाधारां गुणाकारां, सुगुणां गुणभूषितां ॥ २ ॥ गुणश्रेष्ठां गुणकरी, गणोपेतां गणाग्रणीं । गणिनी आर्यिकारत्नं, श्री ज्ञानमतिमादरात् ।। ३ ।। श्रीमते ! आर्यिकरत्न ! ज्ञानमूर्ते ! नमोनमः । मतिर्ज्ञानं ज्ञानमत्यां, अन्वर्थ त्वयि शोभते ॥ ४ ॥ अज्ञानतमसा नष्टः, मार्गो रत्नत्रयात्मकः । तत्प्रकाश-प्रभोधिन्यै, आर्यिके ! ते नमो नमः॥५॥ जिनवाक्यार्णवोद्भूतं, रत्नत्रयं सुनिर्मलं । यया संधारिता तस्यै, नमः श्रीज्ञानमूर्तये ॥ ६ ॥ औजसं दर्शनं यस्याः, औजसं ज्ञानमुत्तमं । औजसं चरणं यस्याः तां नमामि दिने-दिने ॥७॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy