SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [१८७ यस्याः प्रेरणया भवन्त्यनुदिनं कार्यक्रमाःधार्मिकाः, 'संस्थानेत्र त्रिलोक शोध' निरते जैनत्वसंरक्षके । स्वात्मोत्थानपरोपकार-निरता श्रद्धास्पदा वन्दिता साध्वी ज्ञानमती विनम्र शिरसा भक्त्या मया नम्यते ॥ ५ ॥ प्रसूनाञ्जलिः - डॉ० रामप्रसाद त्रिपाठी साहित्य विभागाध्यक्षः लक्ष्मणपुरा, वाराणसी श्रमणः संस्कृति-संस्कृत-प्राकृत-प्रभृति विद्या संरक्षण-संवर्द्धन-प्रचार-प्रसार-निरतानां, जनकल्याणपरम्पराप्राप्तपात्राणां, हतकलुषकुलानां, जम्बूद्वीपप्रेरणा स्रोतानां, कविकुलकोकिलवासन्तिकपवनानां, नानाग्रन्थप्रणयन-संकलन-शोध-कर्मप्रवीणानां, विविधोपाधिनामलङ्कतानां, गणिनी प्रमुखार्यिका मणिजातानां, अर्हन्भक्तिभावभावितातुराणां, श्रीपदलाञ्छित ज्ञानमती गणिनी-पूज्यपादानाञ्च समर्पितोऽयं स्वल्पवाग्वैभवविलासपूर्ण-शिखरिणीवृत्त-प्रवृत्तपद्यप्रसूनाञ्जलिः अनिन्द्यां चारित्र्यां सकलमहिलामौलिमुकुटाम्, सदा सत्याहिंसा पथगमनकार्येषु कुशलाम् । जिनेन्द्रध्यायन्ती सुभग-समभावानुकलिताम् । नमामि त्वां आयें ! सदयकरुणापूर्ण-मनसाम् ॥ १ ॥ यथा पापं गङ्गा हस्ते जगति ख्याति लभते, तथैवार्येभो! त्वं स्वजनपरितापं प्रशमनी । तमावृत्तः पन्था सहजपथनष्टा इह जनाः, । भवद् त्यक्त्वा छायां न खलु शरणं ज्ञातरुचिरम् ॥ २ ॥ यया ज्ञानालोके भरतभुवनं सुस्थिरकृतम् , यया जम्बूद्वीपो विपुलमहिमा कीर्तिगमितः । यया मान्याः कन्याः प्रतिजनसमाजे सुचरिताः, । नमामि त्वां आयें ! निखिलमहिलामण्डनमयीम् ॥३॥ अहो मुग्धा वाणी तव चरितगाने न निपुणा, अहो रुद्धं ज्ञानं मम तव रहस्यं न विदितम् । अहो त्यागं तावत्र तव तुलना क्वापि लभते, । ____ अहं मोहासक्तः गुणगणनकार्य न कुशलः ॥ ४ ॥ न मे काचित् तृष्णा विविधदिवभोगेषु महती, न वा चित्तं दत्तं किमपि वसुधा वैभवसुखम् । न याचे कैवल्यं घनदपदभागी न मनसा, । भवद्दिव्या दृष्टिः सुखदसरिता मे हि जननि ! ॥ ५॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy