SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८२] वार ज्ञानोदय ग्रन्थमाला स्थाद्वादवक्त्री त्वं भारती च, श्रीशांतिसिंधोः सुपरंपरायां । आज्ञानुकूला शुचिकार्यदक्षा, नमामि त्वां ज्ञानमतिं सुभक्त्या ॥ ७ ॥ त्वं दीर्घकालेन सुदीक्षितासि, वात्सल्यभावादनुगृह्य शिष्याः । ब्रामीसमाना कवयित्रि ! मातः ! नमामि त्वां ज्ञानमतिं सुभक्त्या ॥८॥ अनुष्टुप् छन्द - त्वन्माहात्म्यात् मया भक्त्या, काव्यस्तुतिर्विरच्यते । आशीर्यच्छाभयमत्यै, त्वं मातः ! मे शिवं कुरु ॥ ९ ॥ "ज्ञाने मतिं मे कुरु" -आर्यिका चन्दनामती शार्दूलविक्रीडित छन्द - माता ज्ञानमतिः सुविस्तृतमतिः ज्ञानेन संकीर्तिता, दिव्या बोधप्रकाशिका तवकृतिः तीर्थे समुद्भूषिता । टीकाशास्त्रमनेकधा च लिखितं अन्येऽपि शास्त्रादयः, वन्देऽहं शुभज्ञानमूर्तिममला ज्ञाने मतिं मे कुरु ॥ १ ॥ बालेयं प्रथमा सुसंस्कृतमना लोकेऽधुना विश्रुता, संत्यक्ताः पृथिवीतलेषु मनुजैरज्ञानभावास्तदा । संप्राप्ताः तव सन्निधौ बहुजनाः रत्नत्रयं पावनं, वन्देऽहं शुभज्ञानमूर्तिममला ज्ञाने मतिं मे कुरु ॥ २ ॥ आचार्यस्य सुवीरसागरगुरोशिष्या स्वयंसाधिका, सम्यग्ज्ञान विकासिनी शुभमतिः रत्नत्रयाराधिका । आर्या ज्ञानमतिः स्वसंघगणिनी ब्राह्मीसमादर्शिका, वन्देऽहं शुभज्ञानमूर्तिममलां ज्ञाने मतिं मे कुरु ॥ ३ ॥ देशे सम्पति कोऽपि नो तव समा नारी सुसंस्कारिता, यस्याः ज्ञान प्रदायिनी बहुकृतिः लोकेऽत्र संदृश्यते । बालैः विज्ञजनैश्च संस्तुतकृतिः सम्यक्त्वसंवर्द्धिनी, वन्देऽहं शुभज्ञानमूर्तिममला ज्ञाने मतिं मे कुरु ॥ ४ ॥ जम्बूद्वीप विनिर्मितं गजपुरे पश्यन्ति ये मानवाः, स्वर्गारामसुखं च शान्तिमतुलां ते प्राप्नुवन्ति स्वयं । सामीप्ये तव चन्दनामतिरपि ज्ञानामृतस्येच्छया, वन्देऽहं शुभज्ञानमूर्तिममला ज्ञाने मतिं मे कुरु ॥ ५ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy