________________
कृतित्व/संस्कृत
-
साहित्य मनीषी की कीर्ति स्मृतियाँ संस्कृत काव्य कृतित्व
वन्दे जिनवरम् अचलं विमलं नतशतमण्डलं । ज्ञानकुण्डलं जिनवरं । वन्दे । ज्ञानकिरणै: विकसितभास्करं। ध्यानधनुषा खलदलपरिहरं । विश्ववैद्यं ... गुणगणसुन्दरं। अजित महितं जिनवरं, वन्दे ॥1॥
सुललितभाषणं अतिशयभूषणं । शिवपथनायकं मङ्गलदायकं। उन्नतिकारकं प्रेमविधायकं ।
फलदं बलदं जिनवरं, वन्दे ॥2॥ . प्राणिसंघमुखजपित जिनेश ? शरणविहीनं प्राण ? सुरेश ? भवपरतन्त्रं रक्षतु माँ। ज्ञानप्रदायकं, पापप्रणाशकं। न्यायप्रकाशकं जिनवरं, वन्दे ॥३॥
पतितोद्धारक तापविदारकं । मिथ्यानाशकं चित्तविकाशकं। भारतभूषणं तर्जितदूषणं ।
वरदं सुखदं जिनवरं, वन्दे ॥4॥ दुर्नयवारिणं शतशठतारिणं। विक्रमधारिणं सुसमयकारिणं । कमलाशालिनं प्रतिभामालिनं । सुकलं सुफलं जिनवरं, वन्दे॥5॥
(489)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org