________________
कृतित्व / संस्कृत
1975 ईशवीयाब्दे जूनमासे 26 दिनाङ्के भारत देशे आन्तरिकायाः आपात स्थिते: घोषणा सञ्जाता । अत: पूर्व ब्राह्माक्रमणस्य आपातस्थितिः विद्यमाना आसीदेव । आभ्यां घोषणाभ्यां भारतीयाः वैदेशिक मानवाश्च विस्मय सागरे निमग्ना: । एकेयं आकस्मिक घटना, यस्या: कल्पना कस्यापि पुरुषस्य मानसे नासीत् ।
भारतस्य आपातस्थिति: भारतराष्ट्रस्य विंशतिसूत्र दर्शितः कार्यकम:
आखिलराष्ट्रस्य भारतस्य राजनैतिकाः गतिविधयः तया नियन्त्रिताः । समाचार पत्रेष्वपि प्रतिबंध: विहितः । समाजविरोधिनां तत्त्वानां प्रतिबंध: परिग्रहश्च प्रारब्ध: । उद्दण्डविटानां द्यूतकारिणां तस्करव्यापारिणां उपधा ग्राहकाणां च प्रवृत्तिषु निरतानां जनानां कारागारबंधनं स्वच्छन्दतानिरोधश्च सर्वदेशे बहुलतया अभवत्। आपातकालात्पूर्व भारते सर्वतः अराजकतायाः वातावरणं प्रचुरमासीत्। अनुशासनहीनतां व्यापकतां सम्प्राप्ता | राष्ट्रीयहिते कस्यापि मानवस्य ध्यानं नासीत् । भ्रष्टाचारस्य सर्वदेशे प्रसारः हड़ताल कार्यस्य च प्रबल प्रसारः सामूहिकशोभाप्रदर्शनं चासीत् । वस्तूनां परस्परं मिश्रीकरणं संग्रहः शोषकं च बहुलतया प्रचलितं बभूव ।
साहित्य मनीषी की कीर्ति स्मृतियाँ
भारतीय संविधाने आन्तरिकाशान्तिसमये आपातकालस्य घोषणाया: व्यवस्था विद्यते । संविधानस्य 351 तमाधारानुसारेण देशे राष्ट्र पतिना संकटकालस्य घोषणाकृता । आपातकालस्य घोषणायाः देशे विदेशे च विरोधापेक्षया अधिक महास्वागत मभवत् । श्रीविनोवा भावे महोध्येन आपातकाल: “अनुशासन पर्व” इति नाना प्रकटीकृतः ।
अस्मिन्नेव प्रसङ्गे श्री इन्द्रादेव्या प्रधान सचिवपदात् विशति सूत्रीयस्य आर्थिक कार्यक्रमस्य घोषणा विहिता । अन्यारीत्या भारतस्य प्रगति: नियमेन भविष्यति। आपातदशाघोषणातः जीवनस्य सर्वक्षेत्रेषु जागृति: परिवर्तनं च दृश्यते । अयं काल : राष्ट्रस्यकृते वरदानत्वेन सिद्ध: संजातः इति ॥
1.
2.
3.
प्रधान सचिवपद विभूषितया इन्द्रादेव्या प्रजातन्त्रशासनस्य परिस्थितिः श्रमेण दृढीकृता विद्यते । अधुना प्रजातन्त्र पद्धत्या राजनीत्या सा भारतशासनस्य संचालनं सुरक्षणं च करोति । यदा भारते महार्थता - व्यापारशून्यता भ्रष्टाचारता शासनशिथिलता प्रभृतिसमस्यानां समाधानाय प्रजामध्ये संघर्ष: संजात: तत्समये समस्यानां समाधानाय प्रजातन्त्रस्य च सुरक्षणाय राष्ट्रनेतॄणां सहयोगेन इन्द्रादेवी विंशतिसूत्रदर्शिता योजना प्रदर्शिता । अस्यां योजनायां सर्वेषां जनानां प्रजातन्त्र शासनस्य च हितं विद्यते । अधस्तना विंशति सूत्रयोजना दृष्टव्या -
वर्धमानमूल्यस्य प्रतिबन्धे स्थिरीकरणे च शासनस्य प्रयासः ।
भूमिहीन जनानां कृते योग्यभूमिवितरणम् ।
ग्रामीणजनानां ऋणात् मुक्तिप्रयासः ।
Jain Education International
487
For Private & Personal Use Only
www.jainelibrary.org