________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
वर्तमान मूल्यवृद्धि:
अद्य मानवजीवने दैनिक निर्वाहस्य वस्तूनां महामूल्यतायाः महती समस्या विद्यते । रूप्यकस्य मूल्यंन्यूनं संजातं वस्तूनां च मूल्यंदीर्घ भवति। निर्धनानां माध्यमिकानां जनानां च जीवनयापनं दुर्भरं संजायते। वस्तूनां अभावेन जनानां संतोष: नैव जायते, असंतोषेण दैनिक जीवने दुःखं भवति।
असन्तोष वशेनैव नरा: लुण्टाका: भवन्ति: । केचित्जना: चौर्यं कुर्वन्ति, केचित् धनस्य अप हरणं कुर्वन्ति, केचित् परेषां वंचनं विदधति।
स्वार्थसिद्धये जना: पापानि कुर्वते । स्वस्य जीवनस्य अध:पातं कृत्वा परलोकं दुःखमयं कुर्वन्ति । एतैः कारणैः राष्ट्रे अशान्ति: अवनतिश्च भवति।
____ अत: मूल्य वृद्धिसमस्याया: समाधानार्थं सदाचार: नैतिक विचार: सन्तोषभावश्च पालनीयः सर्वै मानवैः । किंच सर्वे मानवा: गृहोद्योगं अन्नोत्पादनं शाकफलोत्पादनं च कुर्युः ।
दिनांके 12 अप्रैल मास 71 ईशाब्दे एशिया महाद्वीपे बंगलादेशस्य नवोदय: अभवत् । यस्य बंगलादेशस्य राष्ट्रपतिः शेखमुजीबुर्रहमान महोदय: प्रधान मंत्री च श्री ताजुउद्दीन अहमद महोदय: निर्वाचित: अभूत।
___ दि. 6 दिसम्बरमासे 71 ईशाब्दे, भारतस्य प्रधानमंत्री इन्दिरागांधी नेत्री बंगलादेशस्य मान्यताप्रदाने सर्वप्रथम घोषणां अकरोत् ।
दि. 24 जनवरी मासे 72 ईशाब्दे रुसराष्ट्रस्य प्रधान सचिव महोदयेन बंगलादेशस्य मान्यतादाने घोषणा कृता । प्रधान मंत्री श्रीमती इन्दिरागाँधी बंगलादेशवासिभि: निमंत्रिता सती दि. 18 मार्च 72 ईशाब्दे बंगलादेशस्य यात्रां अकरोत् । तै: इन्दिरा महोदयाया: सप्रमोदं बहुलं स्वागतं कृतम् । भारतदेश: बंगलादेशाय शरणं सहायतां च ददौ । बंगलादेशस्य भविष्य उज्जलं भवेत् । इति ।
(481
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org