________________
कृतित्व / संस्कृत
पंचदश: अगस्त दिवस : (स्वतंत्रता दिवस : )
भारतराष्ट्रं अस्माकं देशः विद्यते, य: अति प्राचीन: विशाल श्रेष्ठश्च प्रसिद्ध: । वयं अस्य देशस्य निवासिनः स्मः । देशोऽयं अस्माकं मातृभूमि । भारतेऽस्मिन् प्रतिवर्षं धार्मिक पर्वणां राष्ट्रीय पर्वणां च मान्यता समारोहेण भवति । अद्य पंचदश: दिवसः इत्येवं ऐतिहासिकं राष्ट्रीयं च पर्वलोके विद्यते प्रसिद्धम् ।
एक वर्षानन्तरंवयं सर्वे छात्राः अस्य राष्ट्रीयपर्वणः उत्सवं सोत्साहं कुर्मः । अस्मिन् पवित्र दिवसे 1947 तमे ईशा संवत्सरे भारतीय नेतृभिः संचालितेन अहिंसात्मकेन आन्दोलनेन भारत स्थितस्य ब्रिटिशराज्यस्य अवसान: अभूत् । अभूच्च भारतवर्षं पराधीनतायाः बन्धनं विच्छिद्य स्वतंत्रम् । दिवसे ऽस्मिन् सर्वत्र देशे राज धान्यां च त्रिरङ्गध्वजानां उत्तोलनं तथा राष्ट्रीय गानं अभवत् । तत्समये सर्वेषां भारतीयानां प्रमोदः दीर्घः आसीत् ।
साहित्य मनीषी की कीर्ति स्मृतियाँ
तत्समया - दारभ्यं अस्य राष्ट्रीयपर्वणः मान्यता महता समारोहेण भारते भवति । सर्वासु शिक्षाशालासु छात्राः सोत्साहं कुर्वन्ति महोत्सवम् । अनेन महोत्सवेन छात्राणां युवकानां च हृदये राष्ट्रीय भावना जागृ भवति तथा च देश सेवायां प्रेरणा संजायते ।
मानवानां पराधीनं जीवनं मरणतुल्यं भवति परतन्त्रजीवनस्य लोके राष्ट्रे च किमपि मूल्यं न विद्यते । अतएव स्वतंत्रतायाः पूर्वं विदेशेषु भारतीयानां गौरव: नासीत् । परतंत्रजीवनं पशु समं भवति नीति कारेण कथितं च यधमपि विद्यते -
Jain Education International
जीवितातु पराधीनात् जीवानां मरणं वरम् इति ।
मृगेन्द्रस्य मृगेन्द्रत्वं वितीर्णं केन कानने ॥
स्वतंत्रता मानवजीवनस्य जन्मत: एव आवश्यक: अधिकारो विद्यते । पूर्वजानां बलिदानेन जनतायास्य कठोर परिश्रमेण अस्माभिः भारतस्य स्वतंत्रता सं प्राप्ता । अत: शहीदात्मनां सन्देशोऽयं विद्यते यत् सर्वे भारतीयाः अस्य देशस्य स्वतंत्रतां रक्षेयुः । छात्राः अपि शिक्षिता: बलिष्ठाः कर्तव्यपरायणाश्च नागरिका: भवेयुः इति ।
वन्दे मातरम्
480
For Private & Personal Use Only
www.jainelibrary.org