________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ श्रीमदुमास्वामिसूरिमहोदयेनापितत्त्वार्थ सूत्रे एतद् भाषितम् -
"सम्यग्दर्शन ज्ञान चारित्राणि मोक्षमार्गः" इति अपि च - परमात्मायोगस्य मोक्षयोग स्यापि व्याख्यानं गीताग्रन्थे विहितम् । तौ योगी धर्मस्वरूपौ शुद्धात्मसत्ताको प्रसिद्धौ । सर्वेषां संसारिणां आस्तिक्यमतीनां तौ योगौ धर्मसाधकौ विश्वकल्याणप्रदौ सर्वशास्त्रेषु व्याख्यातौ।
__एतेन ज्ञायते - यद धर्मस्य पूर्वोक्तसकलविषयैः सह व्याप्ति: । अत: धर्मस्थ व्यापकव्याख्या गीता शास्त्रे विहिता । तत्र सकलविषयाणां समावेश: तस्य विषयस्य प्रमाणं इति ।
अखिल राष्ट्रेषु - देशेषु च मानवा: आत्महित सम्पादनार्थं परमात्म विषयकश्रद्धां कुर्युः तथापि ते परावलम्बिन: कातरा: पौरुषशून्याः प्रमादिनः न भवन्तु न चापि व्यर्थजीवन यापनं कुर्वीरन्, अस्मात्कारणादेव गीतायां कर्मयोगस्य व्याख्यानं प्रचुरतया सप्रयोजनं निबद्धम् । अथ च यदि गीतायां कर्मयोगस्य व्याख्यानं विद्यते, तर्हि किं स्वरूपं कर्मयोगस्य - इति जिज्ञासा भावेन तस्य स्वरूपं प्रदर्शते -
योगस्थ: कुरु कर्माणि, संगं त्यक्त्वा धनंजय ।
सिद्धय सिद्धो: समो भूत्वा, समत्वं योग उच्यते ॥॥ तात्पर्य मिदम् - यत् कर्मसिद्धिविषये - तदसिद्धिविषये च रागद्वेषं परित्यज्य विषयेष्वना सक्तो योगस्थो भूत्वा कर्मकरणे पुरुषस्य समतापूर्णमनोवृत्तिविशेष: कर्मयोगः इति कथ्यते । बुद्धिसमतायोगः कर्मयोगः इति भावः । विविधलौकिक बाह्यकर्मापेक्षया बुद्धिसाम्यं श्रेष्ठं अतस्तद् बुद्धिसाम्यमाचरणीयम्। फल प्राप्तेरभिलाषां कृत्वा हितकर्मरता: नरा: स्वार्थिन: कृपणा: भवन्ति । साम्यभावविभूषिताः मानवाः पुण्यपापनिर्लिप्ता: भवन्ति । रागद्वेषरहितत्वेन साम्यभावश्रयत्वं, ऐहिलौकिक पारमार्थिकहित साधनदक्षत्वं च कर्मयोगत्वम् इति फलितम्।
भारतेऽस्मिन् जना: मन्दिरेषु परमात्मापूजा-विविधरीत्वा सांगीतभक्तिं, पुराणश्रवणं, जापं, स्वाध्याय, मौखिक पाठादिकं कुर्वन्ति, प्राय: ते सर्वे फलाभिलाषिण: सन्त: एव धार्मिकसाधनां कुर्वन्ति। सर्वेलौकिकार्थ सिद्धिं वांछन्ति, सिद्धाभावे परमात्मानंप्रति अपशब्दप्रयोगं विदधति । अतस्ते न धर्मसाधकाः किन्तु लौकिकव्यापारिण: ते धर्मवंचका: । निष्कामत्वेन धर्मसाधनस्यावश्यकता साम्प्रतं विद्यते । इति ।
(479)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org