________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ वीरार्जुन: श्रीकृष्ण - महापुरुषशरणापन्नोऽभूत । श्रीकृष्णस्य परमोपदेशेन - वीरार्जुनेन विज्ञातं यद् न्यायनीतिपूर्णः संग्राम: श्रेष्ठ, स एव नृपाणां शासनकर्तव्यरूपः विद्यते । श्रीकृष्णेन वीरार्जुन समुत्तेजितः, स च वीरः समरविधाने उद्यतोऽभूत तस्य युद्धनिरोधस्य विचारः विषादश्च विलीनो बभूव । एतेन सिद्धं, यत्समरकलायाः धर्मेण सह संगति:, अन्यथा अन्यायपूर्ण समरेण लोके राज्यस्थितिः विनष्टा भवेत् । अतएव गीतायां क्षात्र धर्मानुसारेनैव राज्य धर्मादिसंरक्षणार्थं युद्धकलाविधानं, तस्यैवावश्यकता च व्यक्तिकृता ।
मीमांसक दर्शनापेक्षया सांख्यदर्शनानुसारेण वा कर्मयोगस्य व्याख्या ग्रन्थेऽस्मिन वर्णिता । स च कर्मयोगो धर्ममूलक एव श्रेष्ठः । न हि कर्मयोगस्यानुष्ठानं अधर्मानुकूलं क्वचिदाभिहितम्, नापि तस्य मानवजी वने आवश्यकता, न च तत्कार्यकारि ।
1
ज्ञानयोगस्यापि धर्ममूलत्वं कथितं, तस्यैव कार्यकारित्वं सिद्धं । ज्ञानयोगस्य परब्रह्म पदार्थ स्थितिस्वभावानुकूल ज्ञप्तिक्रियाया: यथार्थ त्वमेव हि धर्ममूलत्वं ।
किञ्च - सन्यास योगस्य ध्यानयोगस्यापि स्वलक्षणं वास्तविक धर्ममूलकमेव । यतश्च निष्कषायत्वेन निष्कामत्वेन शुद्धात्मत्वेन चानुष्ठितः सन्यासयोगः ध्यानयोगश्च आत्मकल्याण साधक: प्रसिद्धः, तस्यैव धर्ममूलत्वं निगद्यते ।
किञ्च - अक्षरब्रह्मयोगस्यापि धर्मरूपत्व मेव न तयो: भिन्नत्वं । न हि अक्षरब्रह्मयोगे निरर्थकत्वं किन्तु सार्थकत्वमेव स्वाभाविकं सिद्धं परमात्म प्रकाश कत्वात्, विश्वपदार्थ स्वरूपप्रकाश कत्वात्, विश्वव्यवहार सम्यादकत्वाच्च ।
अपि च - राजविद्या - अर्थयोग इत्यानयो: योगयोरपि स्वधर्ममूलत्वं शास्त्र सम्मतम । - धर्मशून्या राजविद्या चेदस्ति तर्हि न सा राजविद्या, नापि सा प्रजाहितकारिणी । राजविद्यायां धर्ममूलकत्वमेव - विश्वशांति प्रदायकं प्रजाहित सम्पादकं श्रेष्ठम् । धर्ममूलक राजनीतिरेव प्राचीन राज्यस्या दर्शनीतिरासीत् । तस्यैवानुकरणमेव आधुनिकराज्ये निहितं । अतएव वर्तमानभारतीयशासनं अहिंसासत्यमूलकं स्थापितं | इदं हि प्राचीना दर्शराज्यस्य पूर्णतयानुकरणं न विद्यीयते तथापि शनै: शनै: राम राज्यस्यादर्शभरते रचनात्मकं परमावश्यकं विद्यते । इदमेवहि 'गाँधीवाद:' इति नाम्ना प्रसिद्ध लोके ।
1
अर्थयोगस्य धर्मरूपत्वं चेत्तर्हि तस्यैव - पुरुषार्थता । धर्मशालिताभावे तु तस्यैव मूर्च्छापापत्वं अतः धर्ममूलकार्थ योगेनैव मानव जीवनस्य सार्थक्यं विद्येयं सर्वैः हितचिन्तकमानवैः ।
-
किंच - भक्तियोगे ऽपि धर्माश्रयत्वं गीताग्रन्थे निगदितं । धर्मशून्या सकामा भक्तिः न मानवकल्याण साधिनी अपितु मायाजालजटिला इन्द्रजालविनोद क्रिया निरर्थका । अतः आत्मकल्याणेच्छुका: श्रद्धापूर्वकं विवेक पूर्वकं स्वकर्त्तव्यज्ञानत्वेन भक्तिमार्गस्य दैनिक साधनां कुर्युः । मुक्तिलाभस्य प्रथमो ऽयं मार्गो भक्तिमार्गः । ततो द्वितीयो विज्ञान मार्गः प्राप्यते । ततश्च तृतीयो वैराग्यमार्गः येन साक्षात् मुक्तिप्राप्तेः साधना विधीयते । तैः समुदितैः त्रिभिः मुक्ति मार्ग: सम्पद्यते । इति गीता ध्ययनेन विवेक: मनसि जागृति |
1
1
Jain Education International
478
For Private & Personal Use Only
www.jainelibrary.org