________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ स्वभावे सन्निविष्ट ते जनानामादराय च ॥4॥ बोधक: कर्मयोगस्य ज्ञानमार्गस्य दीपक: । जिज्ञासुभक्तिमार्गस्य सुविख्यातो भवान् भुवि॥5॥ स्वीकृतं नु त्वया बाल्यात् कष्टप्रद्मसिव्रतम् । कारितं जनकोपेन जर्जरं राजशासनम् ॥6॥ अतस्त्वं कर्मयोगेश, सर्वेषां प्रीतिभाजनम् । लोकमान्य प्रदास्यामि श्रद्धया स्तोत्रसप्तकम् ॥7॥
संस्कृत भवितव्यम् (2/8/52)
गीताग्रन्थस्य गौरवनाथा यथा च लोके दघि मन्थनात्तस्मात्सारत्वेन जनै: नवनीतविशेषो गृह्यते, यथा च विपुलक्षीरसागरत: मन्थन क्रिया द्वारेण कौस्तुभोदय: सर्वप्रयोजन सिद्धिदः प्रसिद्धः, तथैव साहित्यसागरस्य परिशीलनेन तस्माद्बुधजनै: साहित्यसारत्वेन गीता - निखिलविषयज्ञानादिप्रयोजन सिद्धिप्रदा सर्वदा समुपादीयते । अस्याः खलु शब्दापेक्षया लघुकायत्वेपि अर्थापेक्षया महद्गाम्भीर्यं विद्यते।।
__ श्रीभगवद्गीतायां कर्मयोग: दार्शनिकाध्यात्मिक भक्तियोग सत्य ब्रह्मचर्य प्रकृति सन्यासध्यान राजनीति प्रभृति विषयाणां वर्णनं श्रीकृष्णार्जुनयो: सम्वादरूपेण सर्वश्रेष्ठ संस्कृत भाषायां मनोरञ्जकरीत्या सुलभरीत्या च विहितम् । इयं तावद्विषय प्रतिपादनस्य पौराणिक शैली लोकप्रिया अनुपमा च विद्यते।
___ सर्वगुणसम्पन्ने रामराज्यविभूषिते भारते प्राचीनकाले महापराक्रमिणा यशस्विना विविधज्ञान मण्डितेन क्षत्रियवीरेण श्रीकृष्णेनैकेन, धनुर्धारिणं - समरोद्यतं द्वितीयं क्षत्रियवीरं श्रीमदर्जुनम्प्रति स्वकार्यप्रवृत्तिविषये छात्र धर्मस्योपदेशः गीतारूपेण प्रदत्त:, तेन च संसारे ऽनागतशताब्दीषु मानवकल्याणप्रदो - धर्ममार्ग: समुद्धारित: । स एव हि धर्म यो जीवन कष्टपरम्पराया: उद्धृत्य विश्वप्रणिनः श्रेष्ठ सुख स्थाने संगमयति । उक्तञ्च -
"संसारदुःखत: सत्त्वान्यो धरत्युत्तमे सुखे" ग्रन्थे ऽस्मिन् धर्मशब्दस्य व्यापकत्वं सिद्धं - भवति, न तु व्याप्यत्वं । अतएव ग्रन्थे विविधविषयाणां संग्रह : कृतः । अनेन विज्ञायते यद् धर्मस्य - सर्वविषयैः सह संसर्ग: । तथाहि -
___ समरकलाया: धर्मेण सह सम्बंध: । सैव समरकला: यस्यां धार्मिकत्वं (नैतिकत्वं) व्याप्तं, सैव कर्तव्यरूपा-शौर्यकिया। न हि युद्धकलामन्तरेण राज्यस्य संचालनं स्थिरत्वं संरक्षणं ना भवति, न भवति च सज्जनाना - मनुग्रह: दुर्जनानां च निग्रहः इति । अतएव युद्धकलायां धर्मनिर्णयार्थ नैतिक विज्ञानार्थं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org