________________
कृतित्व / संस्कृत
2.
3.
4.
5.
6.
1.
श्रीवर्धमान महावीरग्रन्थे श्रीतिलक महोदयस्याभिमतम् -
पशुबलिना पशुवधयज्ञेन वा जनाः स्वर्गंगच्छन्ति - इति मान्यताबलेन पूर्वकाले पशुयज्ञ प्रसारः आसीत्। रन्तिदेवराज्ञायज्ञ: कृत:, तस्मिन् एवं प्रचुरपशुवध: जात: यत् नद्याः जलं शोणितेन रक्तवर्णं अभूत् । तत्समयादेव तस्या: नाम 'चर्मवती' इति प्रसिद्धम् । अस्या: तीव्र हिंसायाः निराकरणं जैनधर्म: अकरोत् ।
2.
जैनधर्मेणैव वैदिक धर्मं अहिंसाधर्मं कृतं अस्ति ।
हिन्दूसमाजे धर्मेवा जैनधर्मस्य प्रतापेनैव मांस भक्षणस्य मदिरापानस्य निरोध: संजातः । 1904 ईशाब्दे केसरी पत्रस्य 13 दिसम्बर स्याङ्के जैनधर्मविषये लोकमान्येन सम्मतिः प्रदत्ता इतिहास ग्रन्थै: विद्वद्भाषणैश्चेदं ज्ञायते यत् जैनधर्मः अनादिः विद्यते । विषयोऽयं निर्विवादः, विषयेऽस्मिन् इतिहासस्य दृढ प्रमाणानि संति । ईशात: 526 वर्षेभ्यः पूर्वं महावीर तीर्थंकरस्य पुनः प्रकाशेन जैनधर्मस्यास्तित्वं सिद्धम् । बौद्ध धर्मस्य स्थापनाया: प्राक्जैनधर्मस्य प्रसारः आसीत् । जैनधर्मे 24 तीर्थंङ्कराणां मान्यता विद्यते । चरम तीर्थंङ्कर महावीर स्वामिन: पूर्व मपि जैन धर्मस्य स्वभावतः सत्ता ज्ञायते ।
3.
साहित्य मनीषी की कीर्ति स्मृतियाँ
ब्राह्मण धर्मे जैनधर्मस्याक्षुण्णप्रभाव: । जैनधर्मे अहिंसा सिद्धांत: पूर्वकालादेवास्ति। अहिंसातत्त्वस्य सुरीत्या परिज्ञाना भावादेव मानवानां मद्यमांसाहार प्रवृत्तिः संजाता ।
पूर्वकाले अनेक विप्रपण्डिता: जैनधर्मस्य धुरन्धरविद्वांस: आसन्
जैनधर्म वैदिक धर्मयोः भारते निकट सम्बंधोऽभूत । अतएव भास्कराचार्येण ज्योतिषशास्त्रिणा स्वग्रन्थे दर्शनं ज्ञानं चारित्रं च धर्मस्य तत्त्वं कथितम् ।
"देव पूजायज्ञादि धर्मानुष्ठानस्याधिकारः विप्राणामेव नान्येषां नापि नारीणां" इति नियमस्य विरोधं कृत्वा सर्वेषा नराणां नारीणां च कृते जैनधर्मेण धर्मानुष्ठानस्य मार्ग: विशदीकृतः ।
जैनधर्मस्य प्राचीनत्वं इतिहासेन पुरातत्वेन च सिद्धयति ।
बृहत्तरे बम्बई नगरे सागर तीरे चौपाटी स्थाने तिलकस्य सुन्दर पाषाण मूर्ति: खङ्गासनस्था शोभते तस्या: वर्णनं परिवर्तननाटके कृतम् -
अम्मोधे र्निकटे सुचारु सिकताशैलस्थितो मूर्तिमान स्वातन्त्र्याद्भुतङ्गरे जयभृतामग्रे सर: के शरी । वीराणां तिलक : शिरोमणिरयं दुर्धर्षवृत्तिः परै: अद्याप्यत्र कठोरतीक्ष्ण नयनाक्षेपैः क्षिपत्याङ्गलान् ॥ श्रीलोक मान्य पुण्यस्मरण पद्यम्, लोकैः सम्मानितो नित्यं, बालो गङ्गाधरोद्भवः ।
475
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org