SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ एण्ड कॉलेज इत्यस्य स्थापना कृता नागपुरत: केशरीपत्रस्य मराठा पत्राणां च सम्पादनं विहितं । राष्ट्रीयक्षेत्रे शिवावीरोत्सवस्य धार्मिक क्षेत्रे च गणेशोत्सवस्य श्रीगणेशः कृत: । भारतस्य स्वतंत्रतायै राष्ट्रीय महासभासंचालिते आन्दोलने नेतृपदं स्वीकृत्य- “स्वराज्यमस्माकं जन्मसिद्धाधिकारः" इत्यस्य ध्वने: घोषणा विहिता। __ अधुना भारते कयोश्चित् अंग्रेज मेनयो: केनचिद् भारतीयेन विनाशः कृत: । अंग्रेज शासनेन अमुं दोषं श्रीतिलके एवारोप्यास्मै अष्टादशमासान्तं कारावासस्य दण्डः प्रदत्त: । एतदभियोगावसरे न्यायालये श्री तिलकेन यत्कथितं, तस्यानुवाद: हिन्दी कवितायां केनचित् कविना प्रोक्तम् - कृष्ण मंदिरे (कारागारे) 'ओरायन' ग्रन्थ: विरचित: । अनेन ग्रन्थेन योरोपीय: विद्वान् मैक्समूलरमहोदय: प्रभावित: । तत्पत्रप्रयासेन शासनाधिकारिभि: कारागारस्य दण्डे षण्मासानां दण्ड: न्यूनीकृतः। ___ अंग्रेज शासनेन विधीय मानस्य बंगालविभाजनस्य विरोधे आन्दोलनं कृतम्। द्रव्यसंग्रहाय पणदानस्य योजना रचिता |श्रीतिलकस्य हृदये अर्जुनकृष्ण प्रतापशिवा प्रभृति वीराणां नैतिकभावा: आसन् । राष्ट्रीय महासभाया: नम्रदल-उग्रदल इति दलद्वयं आसीत् । तत्रोग्रदलस्य नेता तिलकः प्रसिद्धः तस्य नीति: “शठे शाठयं समाचरेत्" इति। शासकैः एकदा एतत्समाचारपत्र मुद्रित लेखेषु दोषा: आरोपिता: । अभियोगःसंचालित: न्यायालयस्य निर्णये षड्वर्षपर्यन्तं स्वदेशाद् बहिष्कार: सहस्र रूप्यकाणां च दण्ड: घोषिता । षड्वर्ष पर्यन्तं ब्रह्मदेशस्य कारागारे उषित्वा भवता “गीतारहस्य" नामकः ग्रन्थ: विरचितः । श्रीतिलकमहोदयस्य षष्टितम जयन्त्यवसरे अस्मै एकलक्षरूप्यकाणां उपहारः प्रदत्त: जनतया अयं हि नि:स्वार्थ भावेन तद् द्रव्यं देश सेवायां समप्य तत्पर आसीत्। कांग्रेसस्य लखनउ नगराधिवेशने जनतया महत्स्वागतं कृतं । भारतस्य स्वतंत्रता संग्रामस्य अयं सेनानी: अंग्रेज शासनेन सहाहिंसात्मक युद्धं-अकरोत्। 1920 ईशवीयाब्दे गीतायाः श्लोकान् बारम्बारं स्मरन् जुलाई मासस्यैक त्रिंशत्तमे दिनाङ्के रात्रौ मानवतिलक: तिलकः स्वर्गं जगाम । तत्समयादेव भारते अगस्तमासस्य प्रथम दिनाङ्के श्री तिलकश्राद्धदिवस: स्मृतिस्तम्भ: प्रसिद्धः। श्री लोकमान्येन स्वरचितगीता रहस्यग्रन्थे कर्मयोगस्य व्याख्या कृता - लौकिकालौकिक कर्माणि कुर्वन् भक्तिभावेन अध्यात्मभावेन वा सर्वप्राणिषु साम्यबुद्धे : पूर्णतया प्राप्तिरेव कर्मयोगः । शास्त्रोक्तनीतिकर्मणा मानवस्यायं परमपुरुषार्थ:, मानव जीवनस्योद्धारस्य वायं श्रेष्ठमार्ग: विद्यते । बड़ोदा नगरे 1904 ख्रिष्टाब्दे 30 नवम्बरे इतिहास तिलक महोदयेन प्रदत्तस्य भाषणस्य सार: - श्रीमता बड़ोदा नरेशेन गायक वाड़ महोदयेन कान्फ्रेन्सस्य प्रथम दिवसे यथा कथितं तथैव “अहिंसा परमोधर्मः" उद्यरोऽयं सिद्धांत: ब्राह्मण धर्मे चिरस्मरणीयं प्रभावं स्थापितवान् । पूर्वकाले यज्ञार्थं अगणित पशूनां हिंसाया: प्रसार: आसीत्, मेघदूतादिग्रन्थेषु मिलन्त्यस्य प्रमाणानि । परन्तु वैदिक यज्ञात् प्रचण्ड प्राणिहिंसा बहिष्कारस्य श्रेय: जैनधर्मे एव विद्यते। -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy