________________
ऋतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ अर्थ: - हे निषाद ! (हे भील) त्वं काममोहितं अभुं नरक्रौञ्चपक्षिणं सर्वेषां प्रत्यक्षे अवधी: अत: त्वं सदा कदापि प्रशंसां गौरवं वा न प्राप्नुहि । इत्येवं श्लोकं दिवसपर्यन्तं पुन: पुन: करुणा पूर्ण चित्तेन समुनि अपठत् अत्रान्तरे वाल्मीकि मुनेः शोकपूर्णा वाणीं श्रुत्वा स- भगवान् ब्रह्मा तमुपकर्तुं समागतः । तस्य मुनेः दुःखकारणं विज्ञाय लोककल्याणाय ब्रह्मा अवदत् -
- रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।
धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥
वृत्तं कथय धीरस्य यथा ते नारदाच्छुतम् । इति ब्रह्मण: आज्ञां शिरसास्वीकृत्य उदारदर्शन: वाल्मीकिः रम्यश्लोक शतै: यशस्विन: रामचंद्रस्य यशस्कर सरलं काव्यं चकार | यत्काव्यं आदिकाव्यं, वाल्मीकि - मुनिश्च आदिकवि: प्रसिद्ध लोके । अस्मिन् विषये न कस्यापि विज्ञस्य विवाद: दृश्यते।
आनंद वर्धन कालिदास भवभूति प्रभृत्यः महाकवय: संस्कृतज्ञा: वाल्मीकि रामायणं न केवलं काव्यं, अपितु महाकाव्यं - इति वदन्ति । तदा- प्रभृति अन्ये विद्वांस, महाकवयश्च, तत् वाल्मीकि रामायण काव्यं अनुसृत्यैव विविधग्रन्थ रूपेण श्री रामचंद्रस्य चरितं काव्यं वा रचितवंत: ।
अस्मिन् महाकाव्ये करूणरसस्य प्रधानता, उपमा रूपकोत्प्रेक्षादीनां अलंकाराणां प्रयोग: , कोमला पदरचना, प्रसादगुणः, वर्णन सम्भाषणादिषु औचित्यं, क्वचित् मधुरवक्रोक्तिः, क्वचित् व्यंग्यार्थ महिमा लक्षणार्थ: च यथायोग्यं शोभते।
श्री मम्मटभट्ट प्रणीतं काव्यप्रयोजनं अस्मिन् वाल्मीकि रामायण काव्ये सुरीत्या शोभते। येन प्रयोजनेन अस्य महाकाव्यत्वं हितकरत्वं च सिद्धयति । श्रीमम्मटप्रणीतं काव्य प्रयोजनम् -
काव्यं यशसेऽर्थकृते, व्यवहारविदे शिवेतरक्षतये ।
सद्य: परिनिर्वृतये, कान्तासम्मिततयोपदेश युजे ॥१॥ वाल्मीकि रामायणस्य तथा वाल्मीकि मुने: समय: -
वाल्मीकि रामायणस्य निर्माण समय: बहिरंग प्रमाणैः अन्तरंगप्रमाणैश्च निश्चेतुं शक्यः अस्ति । वैदिक दर्शने जैनदर्शने बौद्धदर्शने च श्रीराम चंद्रस्य समभावेन मर्यादा पुरुषोत्तमरूपेण मान्यता विद्यते । तेषु दर्शनेषु प्राप्त प्रमाणाधारै: वाल्मीकिरामायणस्य रचनाकाल: ईशापूर्वं तृतीय शतकादपि पूर्व सिद्धिं प्राप्नोति । महाभारत शास्त्रस्य रचनाया: पूर्वं (ईशाब्दप्रारंभतः पूर्व) वाल्मीकि रामायणस्य रचना अभूत - इति प्राज्ञानं मान्यता विद्यते।
समीक्षा - मानवजीवनस्य संरक्षणं, दीन पतितोद्वारः, पारस्परिक सहानुभूतिः, सत्यानुसन्धानं, सदाचारस्य प्रतिष्ठा, रामराज्यं, भ्रातृ स्नेहः, धर्मवीरता, परमेश्वरस्य महत्त्वं - इमानि लक्षणानि वाल्मीकिरामायणे पदे पदे सम्यक् दृश्यन्ते । इति।
(470)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org