________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ महाकवि: श्रीकालिदास :
कालिदासो भारतस्य श्रेष्ठ: महाकविः । स न केवलं भारतस्य, प्रत्युत विश्वस्य प्रसिद्ध: महाकविः। अतएव स कविकुल गुरुः इति कथ्यते । तेन विरचिताः सप्त संस्कृतभाषा निबद्धा: ग्रन्था: अतीव प्रसिद्धाः। तेषु द्वे महाकाव्ये - रघुवंशं कुमार संभवं च । देखण्ड - काव्ये - ऋतुसंहारं मेघदूतं च । त्रीणि नाटकानि - मालविकाग्निमित्रं, विक्रमोर्वशीयं, अमिज्ञानशाकुन्तलं च
एषु मेघदूतस्य शाकुन्तलस्य च प्रचार : अन्य विदेशेषु अपि अधिकं वर्तते । विश्वस्य सर्वस्वपि प्रमुखासु भाषासु कालिदासस्य संस्कृत ग्रन्थानां अनुवादः प्राप्नोति । जर्मन देशीयः गेटेनामा कवि महोदयस्तु शाकुन्तलनाटकं पठित्वा सहर्षनृत्यतिस्म । कालिदासस्य नाटकानि अथापि न केवलं भारते प्रत्युत विश्वस्य प्रसिद्धेषु नगरेषु रंगभूमौ अभिनयं प्राप्नुवन्ति ।
कालिदासस्य जन्म कदा अभवत् इति सम्यक् न विज्ञातम् । ईशाब्दस्य चतुर्थ शताब्दी मध्ये स संजातः इति बहवो विद्वांन्स: मन्यन्ते । केचित् विद्वांस: श्रीकालिदासं विक्रमस्य प्रथम शताब्दीकाले विद्यमान स्वीकुर्वन्ति । परं तस्य निवास: मध्यप्रदेशे उज्जयिनीनगर्यां अभवत् - इति निश्चितम् । अतएव उज्जयिन्यां प्रतिवर्ष मेलापकं कालिदास जयन्ती महोत्सवश्च समारोहेण भवति ।
केचिक विज्ञा: कथयन्ति यत् उज्जयिनी नगरस्य नृपस्य भोज महाराजस्य राज सभाया: अयं कालिदास : सभासदः आसीत् । केचिद् विज्ञा: मन्यन्ते यत् अयं महाकवि: श्री विक्रमादित्यनृपस्य राजसभाया: नवविज्ञरनेषु एक: विज्ञरतकवि: आसीत् । कथितं च "काव्येषुमाघः , कवि - कालिदासः'।
श्रीकालिदासस्य उपमालंकारः अतीव प्रसिद्ध: स्वरचितकाव्यग्रन्थेषु । प्रोक्तं च प्राज्ञै: - "उपमा कालिदासस्य' इति । स्वकाव्येषु स: कवि: भारतस्य अति मनोरमं वर्णनं अकरोत् । तस्य काव्येषु नीतिवर्णनं प्रकृतिवर्णनं च शिक्षाप्रदं विद्यते ॥
भारतीयस्य कस्यचित् नृपस्य विद्योत्तमा नाम्नी कन्या आसीत् । सा कन्या प्रतिज्ञां अकरोत्, यत् “य: विद्वान् शास्त्रार्थे मां पराजितं करिष्यति तेन सह विवाहसंस्कारः भविष्यति"। बहुभि: विज्ञैः सह तस्याः शास्त्रार्थ: अभवत्, फलत: अनेके विशिष्ट विज्ञा: पराजिता: संजाता।
अनंतरं मन्दबुद्धि: कालिदास: तया सह शास्त्रार्थं कर्तुं समायात: । तस्मिन् दिवसे कालिदासस्य मौनव्रतं प्रतिज्ञारूपं आसीत्, अत: तयोः मौनं शास्त्रार्थ: अभवत् । तस्मिन् शास्त्रार्थे विद्योत्तमा पराजिता अभूत्, कालिदासस्य च विजय: । नियमानुसारेण कालिदासस्य विवाह: विद्योत्तमाकन्यया सह संजातः।
विवाहानन्तरं एकस्मिन् दिवसे वार्तालापप्रसंगे श्रीकालिदास: अशुद्ध शब्दस्य उच्चारणं अकरोत्। विद्योत्तमा भार्या प्रहस्य तस्य अशुद्ध शब्दस्य संशोधनं चकार । स्वपल्या अपमानित: कालिदासः श्री काली देवी मंदिरे प्रविश्य उपविष्टवान् । तत्र काली देव्या: शुद्ध योगेन महती भक्तिः कृता । अतिप्रशन्ना काली देवी श्री कालिदासाय विद्यारूपं वरं ददौ । अनेन वर दानेन श्री कालिदासः संस्कृतभाषाया: श्रेष्ट: विद्वान् अभूत्।
वरप्रदानेन संस्कृत साहित्यस्य विशेषज्ञानं सम्प्राप्य श्री कालिदास: निजगृहं आगच्छतिस्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org