________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
आदिकवि: वाल्मीकि:
संस्कृत साहित्ये महर्षि वाल्मीकि: आदि कविः इतिहास विज्ञैः कथित: । तद्विरचितं रामायण मपि आदि काव्यं लोके प्रसिद्धम् । यत: उत्पत्ति - कालक्रमानुसारेण श्रेष्ठानन्द प्रदेन च काव्यस्यैव पुराणापेक्षया प्राचीनता (प्राथम्यं) विद्यते । सर्वेषां मतेन प्रसिद्धमेव इदं यत् पुराणकर्तुः द्वैपायनात् मुनेः रामायण कवि: वाल्मीकि मुनि: पूर्वतर: इति।
वाल्मीकिः कवि: साहित्ये अनुष्टुप् (श्लोक) छन्दस: आविष्कारकः मन्यते । उपनिषदि अनुष्टुप छन्दः प्रसिद्ध विद्यते। परन्तु लौकिक संस्कृते स्वरचिते रामायणे अनुष्टप (श्लोक) छन्दसः सर्वप्रथमं प्रयोग: वाल्मीकि महोदयेन कृतः । यस्मिन् श्लोके गुरु लघु वर्ण प्रयोग: नियम बद्ध: विद्यते । अत: वेदशास्त्रानन्तरं साहित्ये वाल्मीकि रामायणस्य प्रथमस्थानं प्राप्तनोति साहित्ये विज्ञा: आदिकाव्यस्य वाल्मीकिरामायणस्य द्वितीयं नाम "चतुर्विशति साहस्रीसंहिता' इत्यापि वदन्ति, अर्थात् अस्मिन्रामायणे चतुर्विशतिवर्णसहितस्य गायत्री मन्त्रस्य 24 संख्या प्रमाणा: 24 सहस्रसंख्यका: श्लोकाः सन्ति । श्लोकसहस्रप्रति गायत्री मन्त्रस्य प्रथमाक्षरेण क्रमशः श्लोक प्रारंभ: भवति । अन्य छन्दांसि अपि श्लोकेभ्य: अस्मिन् रामायणे सन्ति, तेपि न्यूनतरा: श्लोका: सन्ति इति विद्वांस : बदन्ति। वाल्मीकि रामायणस्य रचनाविषये शास्त्रेषु कथा प्रसिद्धा -
पूर्व काले स प्रसिद्ध: देवर्षिनारदः वाल्मीकि मुने: आश्रमं उपजगाम । वाल्मीकि: समागतस्य नारदस्य उचितं अतिथिसत्कारं चकार । तदनन्तरं वाल्मीकिः नारदं प्रति लोकोत्तर पुरुष चरितं सविनयं अपृच्छत् ।
प्रश्न कोन्वस्मिन्साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत: ॥ उत्तर - (नारदमुनि: जगाद) -
इक्ष्वाकु वंशप्रभवो रामो नाम जनै: श्रुत: ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥2॥ देवर्षिनारदः भगवत: श्रीराम चन्द्रस्य चरितं संक्षेपत: कथयित्वा यथेष्टं स्थानं जगाम ।
एकदा मध्याह्नकाले शिष्यैः सहित: वाल्मीकिः मुनि: स्नानं कर्तुं तमसानदीं गच्छति स्म । तस्मिन नदीतीरे श्री वाल्मीकि समक्षे विहरन्तं क्रौञ्चपक्षिणं कश्चिद्व्याध: वाणेन विव्याध । रुधिर पंके लुंठयन्तं तं दृष्ट्वा क्रौञ्ची दीनतरं रोदनं चकार । तस्या: रोदनं श्रुत्वा दयालो: वाल्मीकि मुनेः हृदयं अतिकरूणापूर्ण अभवत् । श्री वाल्मीकिः शोका वेश पूर्णां वाणी एकेन श्लोकेन व्याधं प्रति जगाद -
मा निषाद प्रतिष्ठा त्वमगम: शाश्वती समाः । यत् क्रौञ्चमिथुनादेक मवधी: काममोहितम् ॥
(469)
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org