SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृ जैन दर्शने सर्वज्ञ सिद्धि: मीमांसकाः चार्वाकाश्च प्रतिवादिनः कथयन्तियत् अस्मिन् लोके कश्चित् आत्मा सर्वज्ञः नास्ति । अतः अर्हतोऽपि सर्वज्ञत्वं न विद्यते । यतः अप्रसिद्धस्य पदार्थस्य क्वचिदपि केनापि सिद्धिः न भवति । अस्मिन्विषये जैनदर्शनकाराः वदन्ति सूक्ष्मान्तरित दूरार्थाः कस्यचित् आत्मन: प्रत्यक्षाः, अनुमेयत्वात्, अग्न्यादिवत् इति अनुमानात् सर्वज्ञ-सिद्धिः भवति । श्रीसमंतभद्राचार्येण कथितम्सूक्ष्मान्तरितदूरार्था: प्रत्यक्षा: कस्यचिद् यथा । I अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञ संस्थितिः ॥ नास्ति । अर्थ: - सूक्ष्मा: स्वभावविप्रकृष्टाः परमाण्वादयः, अंतरिताः = कालांतरयुक्ता: रामचंद्रादयः, दूरदेशांतरयुक्ताः मेरूपर्वतादयः एते पदार्थाः कस्यचिद् आत्मन: प्रत्यक्षज्ञानविषयाः इति साध्यं । अनुमान विषयत्वात् इति हेतुः । अग्न्यादिः दृष्टान्तः । अग्न्यादौ अनुमेयत्वं कस्यचित्प्रत्यक्षत्वेन सह दृष्टं सत् परमाण्वादौ अपि कस्यचित्प्रत्यक्षत्वं साधयति । ननु परमाण्वाद अनुमेयत्वमसिद्धम् इति चेन्न, सर्वेषामपि वादिप्रतिवादिनां अनुमेयमात्रे विवादो एवं सूक्ष्मादिपदार्थानां कस्यचित् प्रत्यक्षज्ञानं भवतु । तत्पुनः अतीन्द्रियं कथं ? इति प्रश्ने सि जैनाचार्या: प्रादु: - यदि परमाण्वादिज्ञानं इन्द्रिय विषयं स्यात्तर्हि सर्ववस्तु विषयं न स्यात् । इन्द्रियाणां स्वयोग्य पदार्थे एव ज्ञान जनकत्वसामर्थ्यात् परमाण्वादिपदार्थाः इन्द्रियैः न कदापि ज्ञायन्ते । तस्मात्सिद्धं सर्ववस्तुविज्ञानं अतीन्द्रियमेवास्ति । उक्तं च - ननु सर्वज्ञत्वं अर्हतः एव कथं ? इतिचेत् जैना: प्रादुः - प्रकृतानुमानात्सामान्यत: सर्वज्ञत्वसिद्धि: प्रोक्ताः । अर्हतः पुनः सर्वज्ञत्वसिद्धिः अनुमानान्तराद् भवति । तथाहि - अर्हन् सर्वज्ञो भवितुमर्हति निर्दोषत्वात्। यस्तु न सर्वज्ञो नासौ निर्दोष: यथा पथिक पुरुषः इति । निर्दोषत्वं पुनः सर्वज्ञत्वं बिना न सिद्धयति, अज्ञस्य निर्दोषत्वाभावात् । ततो निर्दोषत्वं अर्हति सर्वज्ञत्वं साधयत्येव । - Jain Education International साहित्य मनीषी की कीर्ति स्मृतियाँ * स त्वमेवासि निर्दोष युक्ति शास्त्रा विरोधिवाक् । अविरोधो यदिष्टं ते, प्रसिद्धेन न बाध्यते ||1|| त्वन्मतामृतबाह्मानां, सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥2॥ * ܀ 468 For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy