________________
कृतित्व / संस्कृत
(3) अध्यात्मवादः
-
Jain Education International
आत्म परिभाषा -
अस्ति पुरुषश्चिदात्मा, विवर्जित: स्पर्शगंधरस वर्णै: । गुणपर्यय समवेतः, समाहितः समुदयव्यय ध्रौव्यैः ॥
( पुरुषार्थ सिद्धि श्लोक 9)
-
तात्पर्यम् - लोकेप्रत्येक प्राणिनां शरीरेषु आत्मा ज्ञानदर्शन शक्ति सम्पन्न:, स्पर्श रसगंध वर्णरहितः निश्चयेन अजरामरः, किन्तु व्यवहारेण चतुर्गतिषु जीवन जन्ममरणैः परिवर्तनशील : विद्यते । आत्मनः त्रयो भेदा: - (1) बहिरात्मा - मिथ्यादर्शन ज्ञानचारित्र सहित: जन्ममरण परिवर्तन सहित: । (2) अंतरात्मा सम्यग्दर्शनज्ञानचारित्र साधक: मोक्षमार्गी तत्त्वसंवेदक: । ( 3 ) परमात्मा - ( 1 ) घातिकर्म रहित:, अर्हन् सर्वज्ञ: वीतरागी, हितोपदेशी च । (2) परमसिद्ध परमात्मा - अष्टकर्महीन : अष्टप्रधानगुण सम्पन्नः । (4) अपरिग्रहवादः • यः पदार्थः परितः आत्मानं बध्नाति दुःखी करोति स परिग्रहः, अथवा मूर्च्छापदार्थेषु मोहभावः परिग्रहः । स द्विविध: ( 1 ) बहिरंग परिग्रह: - रजतसुवर्णादिकः दशप्रकार: । (2) अंतरंगपरिग्रहः - मिथ्यात्व क्रोधादि कषायादय: चर्तुदश प्रकारा: 10 +14 = 24 भेदसहितः परिग्रह पापः । योगत्रयेण परिग्रहस्य परित्यागेन आत्महितं लोक हितं सर्व प्रजानां कल्याणं भवति । (5) मुक्तिवादः (कर्मवादः) - संवरनिर्जराद्वारेण ध्यानेन च कर्मसहित भव्यस्य समस्त कर्मनाशः तथा अष्ट गुणोदय: मोक्षः कथ्यते । बद्धकर्मणां भव्यात्मनामेवमोक्षत्वात् जैनदर्शनस्य सर्वोदय सिद्धांत: सार्थकः सफलश्चसिद्ध: । जैनदर्शने पुद्गलकर्मपरमाणूनां सत्ता सुखदुःखयोः संवेदनेन, जन्ममरणेन च ज्ञायते उक्तं च- 'बन्ध हेत्वभावनिर्जराभ्यां सर्वकर्मविप्र - मोक्षो मोक्ष: ।' (तत्वार्थ सूत्र अ 10 सू - 6) भावना चतुष्टयम् (1) मैत्रीभावना - लोके सर्वप्राणिषु दया सुरक्षापरिणामः । ( 2 ) गुणसम्पन्न पुरुषेषु श्रद्धा भक्ति सुरक्षा भाव: । (3) दीनदुःखिनां प्राणिनां कृते अनुकम्पा, परोपकार भाव: । (4) विरोधिनां द्वेषिणां मानवानां च कृते माध्यस्थ भावः उपेक्षा भावश्च, एवं उपरिकथितैः सिद्धांतै: जैन दर्शन स्य लोक कल्याण कारित्वं, वर्तमान काले उपयोगिता, विविध समस्यानां समाधानां च सिद्धम् ।
I
कुर्वन्तु जगतः शांतिं वृषभाद्या: जिनेश्वराः ॥
*
*
܀
साहित्य मनीषी की कीर्ति स्मृतियाँ
467
For Private & Personal Use Only
-
www.jainelibrary.org