________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ भारतीयदर्शनेषु जैन दर्शनस्य विश्वकल्याण कारकत्वं साधनीयम्
आर
प्रमाणैः युक्तिभिश्च -
भगवता महावीर तीर्थंकरेण जैनदर्शने महत्वपूर्ण: सिद्धांता: लोककल्याण कारका: सर्वोदयाश्च प्रतिपादिताः । तथाहि - (1) अहिंसा (2) अनेकांतवाद: (स्याद्वाद:) (3) अध्यात्मवाद: (4) अपरिग्रहवाद: (5) मुक्तिवाद: (कर्मवादः) (6) भावनाचतुष्टयम् ।इति ।
अहिंसासिद्धांत: - लोके सकल धर्मेषु अहिंसा धर्म प्रधानं लोक पूजितं च विद्यते, हिंसा सर्वपापेषु प्रधानं लोक निन्दितं च कथ्यते ।धर्म शास्त्रे कथितम् -
अहिंसा परमोधर्मः, तथाऽहिंसा परोदम: ।
अहिंसा परमंदानं, अहिंसा परमं तप: ॥ तात्पर्य - जीवदयामूल: धर्मः, इन्द्रियविजय आहारदानं, ज्ञानदानं, औषधदानं, जीवनदानं, इच्छानिरोध: तपश्च अहिंसा शब्देन प्रोक्त: । अहिंसा परिभाषा: -
क्रोधमानादिकषाय भावैः स्वस्य परस्य च शरीरादि द्रव्यप्राणानां. ज्ञानादि भाव प्राणानां च हिंसायाः परित्याग: अहिंसा कथ्यते । अहिंसाया: मूलभेदद्वयं - (1) अहिंसा महाव्रतं, (2) अहिंसा अणुव्रतं । अहिंसा महाव्रतं पंच विधं (1) अहिंसा महाव्रतं, (2) सत्यमहाव्रतं, (3) अचौर्यमहाव्रतं, (4) ब्रह्मचर्यमहाव्रतं, (5) परिग्रहत्याग महाव्रतं । एतेषां मनसा वाचाकायेन च परिपालनं श्रेष्ठसाधुभिः क्रियते। अणुव्रतं पंचविध - (1) अहिंसा अणुव्रतं (2) सत्याणुव्रतं (3) अचौर्याणुव्रतं, (4) ब्रह्मचर्याणुव्रतं (5)परिग्रह परिमाणाणुव्रतं च एतेषां योगत्रयेण परिपालनं गृहस्थजनै: (श्रावकै:) विधीयते । अत: अहिंसा धर्मेण सर्वलोकस्य हितं, शांति: सुरक्षा च भवति ॥ (2) अनेकांतवाद: (स्याद्वाद:)
परमागमस्य जीवं, निषिद्ध जात्यन्ध सिन्धुरविधानम् । सकलनयविलसितानां, विरोध मथनं नमाम्यनेकांतम्॥
___ (पुरुषार्थ सि. श्लोक 2) तात्पर्यम् - जन्मान्ध पुरुषाणां गज विवाद विनाशकं, नयमाध्यमेन वस्तुधर्म विरोध निर्णायकं, परमागमस्य प्रधानभूतं, व्यवहार संचालकं, अनेकांतवादं अहं प्रणमामि, येन सकल लोकेजनानां हितं, शांति: सुरक्षा च जायते ।
(466)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org