________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
अतएव नसीरावाद नगरे 22 नवम्बर मासे 1972 खिष्टाब्दे विशाल सभामध्ये श्री ज्ञानसागर मुनिराजेन आचार्यपद त्यागः, श्री विद्यासागर मुनिराजेन आचार्य पदग्रहणं इत्यनयो: पदपरिवर्तनयोः विचित्रदृश्यं समुपस्थितमानवैः साक्षात् समवलोकितम् । तथाहि - आचार्य ज्ञानसागरैः विनम्र - शब्देषु पट्टशिष्यं श्री विद्यासागरं प्रति सभामध्ये निवेदितमिंद वाक्यम् - "शरीरमिदं क्षणिकं शनै: शनै: हीयते, साम्प्रतहं निर्मोहं आचार्यपदं तुभ्यं समर्घ्यं कर्तुमिच्छामि सुरीत्या जीवनान्ते समाधि - साधनं आत्मकल्याण, जैनागमानुसारेण कर्त्तव्यमिदं परमावश्यकं समुचितं विद्यते" इति एवं कथयन्नाचार्य प्रवरः स्वासनादुदतिष्ठत् । अधस्तनासने उपविशन्तं श्री विद्यासागरं प्रधान शिष्यं, स्वस्य उच्चासने उपवेश्य संघाचार्यपद प्रदानस्य स्वाचार्य पद परित्यागस्य च विधिं जैन शास्त्रोक्तरीत्या सम्पाद्य तत्रैवाधस्तनासने समुपाविशत् । जैन शास्त्रानुसारेण गुरुशिष्यानुशासनं प्रकृष्ट विनयभावं चावलोक्य समुपस्थित विशाल जनसमाजस्य जयघोषैः ध्वनितः स प्रदेश: । तदनन्तरं श्री ज्ञानसागरमुनिराजेन, श्री 108 आचार्य विद्यासागर महाराज प्रति स्वासनादुत्थाय सविनयं निवेदितं - आचार्य श्रीः भवतां चरणसान्निध्ये विदधातुमिच्छामि जीवनान्ते समाधिग्रहणं अनुग्रहं कुर्वन्तु भवन्तः इति श्रुत्वा आचार्य विद्यासागर महाभागा: श्री ज्ञानसागरमुनिराजस्य समाधिविधाने समुद्यताः अभूवन् । गुरुशिष्य परम्पराया: आदर्शोऽयं प्रत्यक्षसम्पन्न: अपूर्वं सत्यरुपेण सर्वैः परिदृष्टः ।
श्री ज्ञानसागरस्य मुनिराजस्य अतिशारीरिक शौथिल्यं संवृत्तम् । तथापि समाधिसाधने सावधानत्वेनाभूत् समुद्यतः । आचार्य विद्यासागर महामान्या: श्री ज्ञानसागरस्य वैयावृत्तिं कुर्वन्तः विधिपूर्वकं जीवनान्तिमक्षणे पुण्यसमाधिं सम्पादितवन्तः । सः दिवस: शुक्रवासर: दि. 1 जून मासीय: 1979 ईशवीयाब्द: इति प्रसिद्धः लोके । नसीरावादनगरे समाधिस्थले भक्तिपूर्णसमाजेन निर्मापित: रमणीय: स्मारक: । ज्येष्ठकृष्णा 15 fafer: 1
कृतिवैशिष्टयम्
वाराणस्यां विद्यासम्प्राप्तिसमनन्तरकाले पूर्वकृत संकल्पानुसारं साहित्य निर्माणे स्वाध्ययने पराध्यापने चातीव संलग्नचित्तः अभूत्पण्डित भूरामल शास्त्री विज्ञः । साहित्य निर्माणे स्वप्रतिभाबलेन सम्यग्ज्ञानबलेन च सततपौरुषं कुर्वन्नयं खलु संस्कृतवाण्यां हिन्दी भाषायां च प्रायः चतुर्विंशतिग्रन्थान् रचयति स्म आध्यात्मिक साहित्यिकविषयमाश्रित्य ।
(श्री पं. भूरामल शास्त्री महोदयस्य) साहित्यिक संस्कृत रचना गाम्भीर्यं समवलोक्याधुनिकानां वाराणसेय विज्ञानामियं धारणा श्रूयते यत् कालेऽस्मिन्नपि श्रीकालिदासमाघप्रभृतिसदृशविद्वांसः दृश्यन्ते इति प्रचुरप्रमोदस्य विषयः ।
1978 ईशाब्दे सुश्री किरण टाइन नामधेयया जैनेतर छात्रया " मुनिज्ञानसागर व्यक्तित्व और कृतित्व" इत्यस्मिन्विषये शोधप्रबंधः विरचितः । तत्स्वीकृत्य श्री कुमायूं - विश्वविद्यालय समित्या तस्यै छात्रायै 'पी.एच.डी.' उपाधि प्रदानं विहितं । श्री 108 श्री ज्ञानसागरमुनिराजानां चरणेषु सविनयं श्रद्धामाल्यं समर्प्यते इति ॥
-
*
Jain Education International
܀ ܀
465
For Private & Personal Use Only
www.jainelibrary.org