________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ भजन्ति । अतएव नीतिः प्रसिद्धा जीवने विभिन्नकष्टानुभवनमेव समुन्नते: मूलकारणम् । इति नीत्यनुसारेण भूरामलनामधेयेन छात्रेण, मनसा वाचा कर्मणा आत्मश्रद्धापूर्वकं न्यायव्याकरणसाहित्य सिद्धांतादिविषयाणां सम्यगध्ययनं विधाय शास्त्रिपरीक्षा समुत्तीर्ण । यद्यपि विप्रपाठका: जैन दर्शनग्रन्थानां पाउने रुचिपूर्णा: नासन् तथापि अनेनैव भूरामलच्छात्रेण प्रेरणां प्राप्य जैनदर्शनपाठने श्रमशीला: उत्साहिनश्च भवन्तिस्म ।
एकदा खलु सहपाठिन: जैनेतरच्छात्राः केचिद् जैन दर्शनविषयेऽवर्णवादं चक्रुः, तदैव तान्प्रति जैनदर्शनस्य महत्त्वं प्रतिपाद्य कठोर प्रतिज्ञां अकरोत् - "यदहं जैनदर्शनस्यैव न्यायव्याकरणसाहित्यसिद्धान्तग्रन्थानधीत्य प्रशस्तसंस्कृत जैन साहित्यस्य निर्माणं विधास्यामि" | तत्समयादेव छात्रोऽयं तत्प्रतिज्ञाया: सफलीकरणे समुद्यतोऽभूत्।।
__ भवत: संस्कृतपठन समये सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य (पूर्वनाम - गवर्नमेंट संस्कृत क्विन्स कालेज - इत्यस्य) नियतपाठ्यक्रमे तथैव बंगीय संस्कृत शिक्षा परिषद् कलकत्ता - इति शिक्षा संस्थायाः पाठ्यक्रमे जैनदर्शनस्य विविधविषय ग्रन्थानां नियुक्ति: अभावस्वरूपाऽसीत् इत्येवं विचारणीयां हीन परिस्थितिमवलोक्य, सहयोगिभि - साधं समुचितपुरुषार्थं कृत्वा प्रोक्तशिक्षासंस्थयो: पाठ्यक्रमेषु जैन दर्शनग्रन्थानां नियुक्तिं कारितवान् भवान् श्रीभूरामलस्नातकः । प्रतिज्ञा चाकार्षीत् जैनदर्शनग्रन्थानां विकासाय प्रसाराय प्रकाशनाय प्रचाराय च।
अध्ययनसमाप्तिसमनन्तरं वाराणसीत: स्वनिवासस्थानं राणोलीग्रामं सम्प्राप्य जीवन निर्वाहाय व्यापारं चकार श्री पं. भूरामलमहोदय: अकरोच्च स्थानीय जैन पाठशालायां जैनधर्मप्रसाराय धार्मिक शिक्षणं नि:शुल्करूपत्वेन । आध्यात्मिक व्यक्तित्वम्
आसीद् भवत: मानसे जैनदर्शनविषयाणामध्ययनस्य तीव्रभावना । अतएव स्याद्वाद्महाविद्यालये संस्कृतपठनवेलायामेव जैनदर्शनस्य न्यायव्याकरण साहित्यसिद्धान्तग्रन्थानां पठनं विद्वत्प्रवरात् श्री अम्बादासशास्त्रि महोदयात्समीचीनत्वेन सोत्साहत्वेन च भवता विहितम् । ये च अम्बादासशास्त्रिमहाभागाः, विप्रविद्वत्सु श्रेष्ठा: जैनदर्शनवेत्तार: संस्कृतादिभाषाविज्ञा: उदारचेतस: आसन् भारते प्रसिद्धाः। ते च श्रीगणेश प्रसाद वर्णिमहाभागस्यापि गुरुवरा: प्रसिद्धा: । तैश्च गुरुवरै: बहव: जैनच्छात्रा: सुशिक्षिता: जैनदर्शनविषये । पं. श्रीभूरामलशास्त्रिमहोदय: काशीत: स्वग्राम समागत्य जीवन निवहिण साकं जैनदर्शन शास्त्राध्ययनने सततं अभूत्संलग्न: । स्थानीय जैनपाठशालायां शिक्षणकार्येण सह संस्कृत साहित्य ग्रन्थरचनायामपि करोति स्म श्रीगणेशम् । समयेऽस्मिन् तरूणदशायां विवाह सम्बन्धिनी कुटुम्बिजनकृतां प्रेरणां इतराणि च निमित्तकारणानि बहिष्कृत्य जीवन पर्यन्तं प्रशस्तं ब्रह्मचर्य व्रतं प्रतिज्ञातवान्। द्रव्योपार्जनव्यापारमपि परित्यज्य स्वपरकल्याणे विध्धे समुन्नतिम् । जैनदर्शनस्य विशेषज्ञानं सम्प्राप्तं धवलादिप्रशस्त टीकाशोभितं श्रीषट्खण्डागर्म समधीत्य स्वात्मज्ञानवृद्धिं कृतवान् अभीक्ष्णज्ञानोपयोगी अयंखलु पं. भूरामलशास्त्री महोदयः श्री समन्तभद्राचार्य विरचितं श्लोकम् आत्माभावना विषयं चक्रे
-463
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org