SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ आचार्य ज्ञानसागरस्य व्यक्तित्वं कृतित्वं च गतसमवत्सरे जबलपुर सन्निकटे श्री पिसनहारी मदिया क्षेत्रे, ससंघस्य सूरिप्रवरस्य श्रीविद्यासागर महाभागस्य सन्निधाने, श्री श्रीषट्खण्डागमस्य स्वाध्याय शिविरस्य शुभावसरे, येषां गुरुवराणां अष्टोत्तरशत श्री विभूषितानां ज्ञानसागराचार्यवराणां समाधि दिवसस्य महोत्सवस्य सम्पन्नता समभूत, तेषामेव पूज्याचार्य प्रवराणां नवमसमाधि दिवसस्य महोत्सवः समवत्सरेऽस्मिन्नपि मध्यप्रान्तीय सागरस्य श्रीगणेश दिगम्बर जैन संस्कृत महाविद्यालयस्य वर्णीभवनस्य प्राङ्गणे, 2508 श्री वीरनिर्वाणसंवत्सरे, श्रीविद्यासागर मुनिराजस्य सान्निध्ये, तृतीयस्य षट्खण्डागमस्वाध्याय शिविरस्य पुनीतवेलायां, समारोहेण विधीयते - इति परमप्रमोदः। __ पञ्चेन्द्रियविषयरिक्तानां ज्ञानशीलानां गुरुवराणां संगतिः सदुपदेश: स्मरणं भक्ति:वैयावृत्यं प्रणामश्च सर्वेषां मानवानांकृते कल्याणकारकं भवति, अतएव श्रीविद्यासागरमहाभागस्य गुरुवराणां, अस्माकं सर्वेषां 'गुरुणां गुरुः' इति पदविभूषितानां स्वर्गीय ज्ञानसागर मुनिराजानां स्मरणं भक्ति: श्रद्धाञ्जलिश्च मानवानां हितायसाम्प्रतं परमावश्यकं भवति इति हेतो: समाधिदिवसस्य मान्यता विधीयते । भौतिकव्यक्तित्वम् __1951 विक्रमाब्दे माघमासे येन बालके न स्वसार्थकजन्मना राजस्थान प्रदेशस्य सीकर मण्डलान्तर्गतराणोलीग्रामो विभूषायाञ्चक्रे । 'भूरामल' इति प्रथमाभिधानेन चतुर्भुजनामधेय: पितृमहोदय:, घृतवरीदेवी भारत जननी च प्रमोदवती विहिता, स्वशरीर सौन्दर्येण मधुरवचनेन च खण्डेलवालान्तर्गतं छावड़ागौत्रं अलंचक्रे । स्वप्रतिभाविशेषेण स्वकीयपंचसहोदरा: गौरवान्विता: कृता: । मानवसमाजस्यभूषण: स बालकः धन्यः आसीत्। 1959 विक्रमाब्दे अशुभकर्मोदयाद् भवत: पितृमहोदयस्यासमये एव निधनं सज्जातम् ग्रामस्य पाठशालायां प्रारंभिक पठनं विधाय, स: प्रतिभाशाली बालकः स्वज्येष्ठ मातृस्वीकृतिं सम्प्राप्य वाराणसीनगस्य भदैनीघट्टस्थिते श्रीस्याद्वाद जैन महाविद्यालये विशेषाध्ययन-हेतो: प्रवेशंसमप्राप्तवान्। निजकुटुम्बस्यार्थिक परिस्थिते: हीनत्वात् स छात्र: महाविद्यालयस्य पठनशुल्कप्रदानेऽभूदसमर्थः, अतएव स्वकीयमतिना गंगायाः विशालघट्टेषु वस्त्राणिविक्रीय तदुपार्जितवित्तेन संस्कृत पठनादिव्ययस्य यथायोग्यं पूर्तिमकरोत् एवं प्रतिभा सम्पन्न: स छात्र: संस्कृतसाहित्याध्ययनेऽभवदतीव श्रमेण संलग्न: छात्रव्यक्तित्वम् - नीतिज्ञानांमतम् पठन्ति विद्यार्थिगणा: श्रमेण, ग्रन्थं सहन्त: कठिनां विपत्तिम् । भजन्ति ते तत्फलमात्तसौख्याः, विपत्तिरेवाभ्युदयस्य मूलम् ॥1॥ विशयर्थ छात्रा:पूर्वं कष्टसहस्त्रं सहन्त: परिश्रमेण क्लिष्टग्रन्थान् पठन्ति, पश्चात् ते पठनफलं आत्मसौख्यं 462 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy