________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
ब्रह्मचर्यस्य महत्त्वम्
दुराचारेण मानवजीवनस्य पतनं भवति । यत: पञ्चेन्द्रियाणां विषयाणां पोषणेन आत्मनः प्रवृत्तिः कल्याणमार्गे न जायते अपितु कुमार्गे एव जायते । पञ्चेन्द्रियविषयसेवनेन आत्मनः शुद्धिः कदापि न भवति। अत:आत्म शुद्धये दुराचारपरिहाराय च ब्रह्मचर्यस्य यतीनां गृहस्थानां च कृते महीतले महती भवति आवश्यकता
ब्रह्मणिचर्या प्रवृत्ति: यस्मिन्व्रते भवति तत् ब्रह्मचर्य व्रतं कथ्यते। व्यवहारे यत्र कषायपूर्वकं मैथुनत्याग: विषय सेवनत्यागो वा शरीरशक्ति संरक्षणं वा ब्रह्मचर्यमिति कथ्यते।
ब्रह्मचर्यव्रतस्य सामान्येन प्रकारद्वयं अस्ति । प्रथमं ब्रह्मचर्यमहाव्रतं, द्वितीयं तु ब्रह्मचर्याणुव्रतं । तत्र मनसा वाचा कर्मणा कृतेन कारितेन अनुमोदनेन च पञ्चेन्द्रिय विषयसेवनस्य त्यागं कृत्वा आत्मस्वभावस्य साधना संरक्षण वा ब्रह्मचर्यमहाव्रतं कथ्यते । दिगम्बर मुनयः खलु अस्य परिपालनं कुर्वन्ति ।
पञ्चेन्द्रियविषयाणां मनसा वाचा कर्मणा स्थूल रीत्या त्याग: शारीरिकवीर्यसंरक्षण वा द्वितीय ब्रह्मचर्याणुव्रतं कथ्यते। व्यवहारे च धर्मानुकूलं विवाहं कृत्वा स्वदारसंतोषः परस्त्रीत्यागश्च ब्रह्मचर्याणुव्रतमिति वदन्ति विद्वांस : । अस्य व्रतस्य पालनं गृहस्थ: कुर्वन्ति।
लोके शास्त्रे चास्य व्रतस्य दीर्घमहत्त्वं प्रसिद्धम् । भृगुकच्छनगरे प्राचीन काले श्रीमती नीलीसती श्रीजिनदत्तश्रेष्ठिन: पुत्री शीलवती बुद्धिमती सौन्दर्य सम्पन्ना चासीत् ॥
भाग्यवशात् तस्या: विवाहो अभूत् सागरदत्तवैश्यपुत्रेण बौद्ध धर्मधारिणा साकम् । स: सागर दत्त: सदा बौद्ध धर्मधारणाय नीलीसती प्रति प्रयासंचकार, तथापि नीलीसती दृढश्रद्धया जैनधर्मात्परिभ्रष्टा-नाभूत्। एकदा सागरदत्तस्य गृहे नीलीसती बौद्धसाधूनां परीक्षांकृतवती। यस्या परीक्षानां ते सर्वे लज्जिता: पराजिताश्च बभूवुः । धार्मिक द्वेषकारणात् तत्कुटुम्बिभि: नीलीसतीसम्बन्धे कुशीलकलङ्कः समारोपितः ।
एतस्य: विपत्ते: काले श्रीनीली श्रीजैन मंदिरे भावपूर्वकं जिनेन्द्रदेवस्य स्तुतिमकरोत् । तदा तत्प्रभावात् नगरदेव्या तस्यै सत्यै सान्त्वना प्रदत्ता । नगरदेवी रात्रौ एव नगरस्य मुख्यद्वारं कपाटै: आवृतं करोतिस्म । तया च राजा स्वप्न माध्यमेन संसूचित: यत् श्वः प्रात:काले कस्याश्चित् शीलवत्याः धर्मप्रभावेणैव नगरद्वारस्योद्घाटनं भविष्यति नान्यथेति । द्वितीयदिवसे प्रात:काले नगरस्य सर्वाभि: नारीभिः कृतप्रयत्नाभि: नगरद्वारस्य उद्धार नं नैवाभूत् सर्वेजना: आश्चर्य निमग्ना: तत्प्रतीक्षां कृतवन्त: । तदा श्रीमत्या: नीलीसत्या: स्व हस्तयो; स्पर्शमात्रेण नगरद्वारस्य शीघ्रमेव समुद्घाटनं सञ्जातम् । एतन्माहात्म्यं दृष्ट्वा सर्वे नागरिका: जिनेन्द्रदेवस्य जयध्वनि नीलीसत्याश्च जयध्वनि अकुर्वन्।
सर्वे कुटुम्बिनः श्रीनीलीसत्याः शीलप्रभावं दृष्टवा पश्चातापं कृतवन्त: । तै: सर्वे: बौद्धधर्म परित्यज्य जैनधर्मविषये दीक्षा गृहीता । एवत्सर्वो ब्रह्मचर्यस्यैव प्रभाव: लोके शास्त्रे च प्रसिद्ध: । अत: आत्मकल्याणाय जीवनशुद्धि विधानाय च सर्वैः मानवैः सदा ब्रह्मचर्यव्रतस्य यथाशक्ति साधनं कर्तव्यमिति । जैनशास्त्रैसु कथितं च - "ब्रह्मचर्य परं तीर्थं पालनीयं प्रयत्नतः' इति ।
-461
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org