________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ सप्तर्षीणां संगत्या वाल्मीकि: मिथ्यामार्ग त्यक्त्वा स्वयमेव ऋषिदीक्षां स्वीकृतवान् । एभिः दृष्टान्तै: सत्संगति प्रभाव: प्रसिद्धः भवति । व्यासेनकथितम् -
यथा गंगा मनुष्याणां पापनाशस्य भाविनी ।
तथा मन्दसमुद्धारस्वभावा: साधवः स्मृताः ॥ सत्संगति प्रभावेण मूर्खजनोऽपि सदाचारी ज्ञानी च भवति । स स्वकर्तव्यपालने समर्थ: भवति । उक्तं च - काचः कांचन संसर्गाद्धत्ते मारकती द्युतिम् । तथा सत्सन्निधानेन मूों याति प्रवीणताम् ।
कुसंगति प्रभावेण सदाचारी शिक्षितोऽपि मानव: दुरचारी दुष्ट: भवति । तस्य बुद्धि: हित- कार्य परित्यज्य पापकार्य करोति । नीतिकारैः कथितम् -
मुखेनैकेन विध्यन्ति, पादमेकस्य कण्टका: ।
दूरान्मुखसहस्रण, सर्वप्राणहरा: खला: ॥ यथा च गुणिनां संगेन दोषयुक्तोऽपिजन: दोषं त्यक्त्वा गुणी भवति । तथैव गुणी जन: अपि दुष्ट - पुरुष संगत्या गुणं त्यक्त्वा दोषं युक्त: जायते, तस्यबुद्धि: भ्रष्टाभवति: । प्रोक्तं च - गुणा गुणज्ञेषु गुणा: भवन्ति, तेनिर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्यतोयाः प्रभवन्तिनद्यः, समुद्रमासाद्य भवन्त्यपेयाः।
मानवः यादृशानां पुरूषाणां संगतिं करोति स तादृश एव भवति । हृदयस्योपरि संगत्याः प्रबल प्रभावो भवति । बालकस्य कोमलं शरीरं मस्तकं च भवति, स: यादृशैः बालकै: सह पठिष्यति, क्रीडिष्यति, गमिष्यति स तादृश एव भविष्यति । दुष्टबालकै: सह अनेका: हानय: जायन्ते । दुराचारिणा सह दुराचारी, सदाचारिणा सह सदाचारी, द्यूतकारिणा सह द्यूतकारी, मदिरा सेवकेन सह मदिरासेवी भवति । दुर्जनसंगत्या मानवस्य शिक्षितस्यापि प्रशंसा न भवति । सर्वत्र अनादर एव दृश्यते । अत: गुण ग्रहणाय श्रेष्ठ मानवानां संगति: कर्तव्या । गुणिना सह नियमेन गुणा: प्रकटी भवन्ति । कविना प्रोक्तम् -
जाडयं धियो हरति सिञ्चति वाचि सत्यम, मानोन्नतिं दिशति पापमपाकरोति । चेत: प्रसादयति दिक्षु तनोति कीर्तिम् , सत्संगति: कथय किं न करोति पुंसाम्॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org