SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ सत्संगति: (सतां सद्भिः संग कथमपि हि पुण्येन भवति) गुणानां ग्रहणाय दोषाणां च परित्यागाय सत्संगते: आवश्यकता भवति अथवा दुर्जनानां बहिष्काराय सज्जनानां च रक्षणाय सत्संगते: महती आवश्यकता मानवानां कृते सर्वदा भवति । सतां संगति: इति सत्संगति: अथवा सद्भिः = सज्जनै: सह संगति: इति सत्संगति: इति सत्संगति शब्दस्य तात्पर्यम् । सत्संग: नराणां कृते सर्वदैव स्वपरकल्याणं करोति । मानवा: धनार्जन प्रभृति लौकिक कार्येषु निमग्ना: सन्त: साधारणं जीवनं यापयन्ति, तत्र जीवनजागृति: विवेकः चातुर्यं धर्मप्राप्ति: सत्संगति प्रभावेणैव भवति । जीवनस्य समुन्नति: शुद्धिश्च सज्जनानां गुणैः संजायते । सज्जन प्रभावेण हीन वर्णोऽपि जन: महान्पूज्य: भवति उक्तं च यथोदयगिरे: द्रव्यं सान्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते॥ तत्वज्ञानशोभिता: सन्त: निजात् भिन्न किञ्चित् अपि वस्तु स्वार्थरूपेण न कामयन्ते, अपितु लोक हितायैव तस्योपयोगं कुर्वन्ति । स्वहस्त स्थितमपि वस्तु धनं वा आत्मीय न मन्यन्ते । एतादृशां सतां संगति: दर्शनं वा पुण्येन भवति । यदा कस्यचित् पुरुषस्य भाग्योदय: जायते तदा सज्जनानां दर्शनने तस्य मानसे काचिद् अपूर्वजिज्ञासा प्रभवति, कल्याण कामना वा उदेति। तत: परंस स्वयमेव पुरुषार्थेन संयमेन सत्याचरणेन ब्रह्मचर्येण वा समाचरन् लोक श्रेष्ठ: भवति । नीति कारेण कथितम् - कीटोऽपि सुमन: सङ्गदारोहति सतां शिर: अस्मापि याति देवत्वं, महद्गिः सुप्रतिष्ठित: ॥ यथा सूर्यप्रकाशः स्वभावत: लोकोपकाराय भवति, तथैव सत्पुरुषसङ्गेन, तेषां ज्ञानगुणेन वा, न पुन: एकस्य द्वयोः त्रयाणां वा कल्याणं भवति किन्तु सकलभुवनस्य कल्याणं भवति । तथाहि - श्रीगौतम बुद्ध: स्वजीवनकाले अधिकान धर्मसंघान्स्थापयित्वा बौद्धभिक्षूणां कल्याणं अकरोत् । श्री बुद्ध महोदस्य दैनिकेन धर्मोपदेशेन भारतस्य सर्वक्षेत्रेषु ज्ञान प्रकाशः अभूत । __ श्रीकृष्णस्य गीताधर्मोपदेशेन न केवलं श्री अर्जुनस्य मोह: विनष्ट: अपितु भारतदेशे विदेशेषु च लोककल्याणस्य सर्वश्रेष्ठमार्ग: प्रसारित:। श्री शंकराचार्यस्य प्रभावकोपदेशेन देशे विदेशे च जनहिताय वेदान्त संस्कृते: धारा प्रवाहिता । स: शंकराचार्य: भारतं अखण्डं विधातुंभारतस्य चतुर्दिक्षु विश्वविद्यालय रूपान मठान् स्थापितवान्। विवेकानंद गांधी प्रभृति नेतृणां ज्वलन्तप्रभावेण देशे विदेशे च अहिंसा सत्यं च मानवहिताय पशुरक्षणाय च प्रदर्शितम्। -456 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy